श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥
असि इतिरहस्यं हि यस्मात् एतत् उत्तमं योगः ज्ञानम् इत्यर्थः ॥ ३ ॥
एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥
असि इतिरहस्यं हि यस्मात् एतत् उत्तमं योगः ज्ञानम् इत्यर्थः ॥ ३ ॥

उक्तमधिकारिणं प्रति योगस्य वक्तव्यत्वे हेतुमाह -

रहस्यं हीति ।

अनादिवेदमूलत्वाद् योगस्य पुरातनत्वम् । भक्तिः - शरणबुद्ध्या प्रीतिः, तया युक्तः । निजरूपमवेक्ष्य भक्तो विवक्षितः । समानवयाः स्निग्धः सहायः सखेत्युच्यते ।

एतदिति कथं योगो विशेष्यते, तत्राह -

ज्ञानमिति

॥ ३ ॥