श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भगवता विप्रतिषिद्धमुक्तमिति मा भूत् कस्यचित् बुद्धिः इति परिहारार्थं चोद्यमिव कुर्वन् अर्जुन उवाच

भगवति लोकस्यानीश्वरत्वशङ्कां निवर्तयितुं चोद्यमुद्भावयति -

भगवतेति ।

परिहारार्थंभगवतो मनुष्यवदवस्थितस्यानीश्वरत्वमुपेत्य तद्वचने शङ्कितविप्रतिषेधस्येति शेषः । भगवतो निजरूपमुपेत्य नेदं चोद्यं, किन्तु लीलाविग्रहं ग्रहीत्वेति वक्तुं चोद्यमिवेत्युक्तम् ।