श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन
तान्यहं वेद सर्वाणि त्वं वेत्थ परन्तप ॥ ५ ॥
बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव हे अर्जुनतानि अहं वेद जाने सर्वाणि त्वं वेत्थ जानीषे, धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात्अहं पुनः नित्यशुद्धबुद्धमुक्तस्वभावत्वात् अनावरणज्ञानशक्तिरिति वेद अहं हे परन्तप ॥ ५ ॥

अतीतानेकजन्मवत्त्वं ममैव नासाधारणं, किन्तु सर्वप्राणिसाधारणमित्याह -

तव चेति ।

तानि प्रमाणाभावान्न प्रतिभान्तीत्याशङ्क्याह -

तानीति ।

ईश्वरस्यानावृतज्ञानत्वादित्यर्थः ।

किमिति तर्हि तानि मम न प्रतीयन्ते ? तवावृतज्ञानत्वादित्याह -

न त्वमिति ।

परान् परिकल्प्य तत्परिभवार्थं प्रवृत्तत्वात् तव ज्ञानावरणं विज्ञेयमित्याह -

परन्तपेति ।

अर्जुनस्य भगवता सहातीतानेकजन्मवत्त्वे तुल्येऽपि, ज्ञानवैषम्ये हेतुमाह -

धर्मेति ।

आदिशब्देन रागलोभादयो गृह्यन्ते ।

ईश्वरस्यातीतानागतवर्तमानसर्वार्थविषयज्ञानवत्त्वे हेतुमाह -

अहमिति

॥ ५ ॥