श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणाम् , तां परिहरन् श्रीभगवानुवाच, यदर्थो ह्यर्जुनस्य प्रश्नः
या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणाम् , तां परिहरन् श्रीभगवानुवाच, यदर्थो ह्यर्जुनस्य प्रश्नः

भगवत्यज्ञानान्मनुष्यत्वशङ्कां वारयितुं प्रतिवचनमवतारयति -

या वासुदेव इति ।

अन्यथाप्रश्ने कथमाशङ्कान्तरं परिहर्तुं भगवद्वचनमित्याशङ्क्य, प्रश्नप्रतिवचनयोरेकार्थत्वमाह -

यदर्थो हीति ।

यस्य शङ्कितस्य विरोधस्य परिहारार्थो यस्य प्रश्नः, तमेव परिहारं वक्तुं भगवद्वचनमित्यर्थः ।