भगवत्यज्ञानान्मनुष्यत्वशङ्कां वारयितुं प्रतिवचनमवतारयति -
या वासुदेव इति ।
अन्यथाप्रश्ने कथमाशङ्कान्तरं परिहर्तुं भगवद्वचनमित्याशङ्क्य, प्रश्नप्रतिवचनयोरेकार्थत्वमाह -
यदर्थो हीति ।
यस्य शङ्कितस्य विरोधस्य परिहारार्थो यस्य प्रश्नः, तमेव परिहारं वक्तुं भगवद्वचनमित्यर्थः ।