चातुरर्वर्ण्ये चातुराश्रम्ये च यथावदनुष्ठीयमाने नास्ति धर्महानिरिति मन्वानो विशिनष्टि -
वर्णेति ।
वर्णैराश्रमैस्तदाचारैश्च लक्ष्यते - ज्ञायते धर्मः, तस्येति यावत् ।
धर्महानौ समस्तपुरुषार्थभङ्गो भवतीत्यभिप्रेत्याह -
प्राणिनामिति ।