श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥
यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णाश्रमादिलक्षणस्य प्राणिनामभ्युदयनिःश्रेयससाधनस्य भवति भारत, अभ्युत्थानम् उद्भवः अधर्मस्य, तदा तदा आत्मानं सृजामि अहं मायया ॥ ७ ॥

चातुरर्वर्ण्ये चातुराश्रम्ये च यथावदनुष्ठीयमाने नास्ति धर्महानिरिति मन्वानो विशिनष्टि -

वर्णेति ।

वर्णैराश्रमैस्तदाचारैश्च लक्ष्यते - ज्ञायते धर्मः, तस्येति यावत् ।

धर्महानौ समस्तपुरुषार्थभङ्गो भवतीत्यभिप्रेत्याह -

प्राणिनामिति ।