श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
परित्राणाय साधूनां विनाशाय दुष्कृताम्
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥
परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानाम् , विनाशाय दुष्कृतां पापकारिणाम् , किञ्च धर्मसंस्थापनार्थाय धर्मस्य सम्यक् स्थापनं तदर्थं सम्भवामि युगे युगे प्रतियुगम् ॥ ८ ॥

यथा साधूनां रक्षणम् , असाधूनां निग्रहश्च भगवदवतारफलं, तथा फलान्तरमपि तस्यास्तीत्याह -

किञ्चेति ।

धर्मे हि स्थापिते जगदेव स्थापितं भवति, अन्यथा भिन्नमर्यादं जगदसन्गतमापद्येतेत्यर्थः

॥ ८ ॥