मायामयमीश्वरस्य जन्म, न वास्तवं, तस्यैव च जगत्परिपालनं कर्म, नान्यस्य, इति जानतः श्रेयोऽवाप्तिन्दर्शयन् , विपक्षे प्रत्यवायं सूचयति -
तज्जन्मेत्यादिना ।
यथोक्तं - मायामयं, कल्पितमिति यावत् । वेदनस्य यथावत्वं, वेद्यस्य जन्मादेरुक्तरूपानतिवर्तित्वम् । यदि पुनर्भगवतो वास्तवं जन्म, साधुजनपरिपालनादि चान्यस्यैव कर्म क्षत्रियस्येति विवक्ष्यते, तदा तत्त्वापरिज्ञानाप्रयुक्तो जन्मादिः संसारो दुर्वारः स्यादिति भावः
॥ ९ ॥