श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥
वीतरागभयक्रोधाः रागश्च भयं क्रोधश्च वीताः विगताः येभ्यः ते वीतरागभयक्रोधाः मन्मयाः ब्रह्मविदः ईश्वराभेददर्शिनः मामेव परमेश्वरम् उपाश्रिताः केवलज्ञाननिष्ठा इत्यर्थःबहवः अनेके ज्ञानतपसा ज्ञानमेव परमात्मविषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तः मद्भावम् ईश्वरभावं मोक्षम् आगताः समनुप्राप्ताःइतरतपोनिरपेक्षज्ञाननिष्ठा इत्यस्य लिङ्गम्ज्ञानतपसाइति विशेषणम् ॥ १० ॥

मन्मयत्वस्य मद्भावगमनेनापौनरुत्तयं दर्शयति -

ब्रह्मविद इति ।

आत्मनो भिन्नत्वेन, भिन्नाभिन्नत्वेन वा ब्रह्मणो वेदनं व्यावर्तयति -

ईश्वरेति ।

अभेददर्शनेन समुच्चित्य कर्मानुष्ठानं प्रत्याचष्टे -

मामेवेति ।

तदुपाश्रयत्वमेव विशदयति -

केवलेति ।

मामुपाश्रिता इति केवलज्ञाननिष्ठत्वमुक्त्वा, ‘ज्ञानतपसा पूताः’ (भ. गी. ४-१०) इति किमर्थं पुनरुच्यते ? तत्राह -

इतरेति

॥ १० ॥