श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥
वीतरागभयक्रोधाः रागश्च भयं च क्रोधश्च वीताः विगताः येभ्यः ते वीतरागभयक्रोधाः मन्मयाः ब्रह्मविदः ईश्वराभेददर्शिनः मामेव च परमेश्वरम् उपाश्रिताः केवलज्ञाननिष्ठा इत्यर्थः । बहवः अनेके ज्ञानतपसा ज्ञानमेव च परमात्मविषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तः मद्भावम् ईश्वरभावं मोक्षम् आगताः समनुप्राप्ताः । इतरतपोनिरपेक्षज्ञाननिष्ठा इत्यस्य लिङ्गम् ‘ज्ञानतपसा’ इति विशेषणम् ॥ १० ॥

मन्मयत्वस्य मद्भावगमनेनापौनरुत्तयं दर्शयति -

ब्रह्मविद इति ।

आत्मनो भिन्नत्वेन, भिन्नाभिन्नत्वेन वा ब्रह्मणो वेदनं व्यावर्तयति -

ईश्वरेति ।

अभेददर्शनेन समुच्चित्य कर्मानुष्ठानं प्रत्याचष्टे -

मामेवेति ।

तदुपाश्रयत्वमेव विशदयति -

केवलेति ।

मामुपाश्रिता इति केवलज्ञाननिष्ठत्वमुक्त्वा, ‘ज्ञानतपसा पूताः’ (भ. गी. ४-१०) इति किमर्थं पुनरुच्यते ? तत्राह -

इतरेति

॥ १० ॥