श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥
ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां प्रपद्यन्ते तान् तथैव तत्फलदानेन भजामि अनुगृह्णामि अहम् इत्येतत्तेषां मोक्षं प्रति अनर्थित्वात् हि एकस्य मुमुक्षुत्वं फलार्थित्वं युगपत् सम्भवतिअतः ये फलार्थिनः तान् फलप्रदानेन, ये यथोक्तकारिणस्तु अफलार्थिनः मुमुक्षवश्च तान् ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिनः मुमुक्षवश्च तान् मोक्षप्रदानेन, तथा आर्तान् आर्तिहरणेन इत्येवं यथा प्रपद्यन्ते ये तान् तथैव भजामि इत्यर्थः पुनः रागद्वेषनिमित्तं मोहनिमित्तं वा कञ्चित् भजामिसर्वथापि सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याःयत्फलार्थितया यस्मिन् कर्मणि अधिकृताः ये प्रयतन्ते ते मनुष्या अत्र उच्यन्तेहे पार्थ सर्वशः सर्वप्रकारैः ॥ ११ ॥

मुमुक्षूणामीश्वरानुसारित्वेऽपि फलान्तरार्थिनां कुतस्तदनुसारित्वम् ? इत्याशङ्क्य ‘फलमत उपपत्ते’ (ब्र. सू. ३-२-३८) इति न्यायेन तत्फलस्येश्वरायत्तत्वात् तदनुवर्तित्वमावश्यकम् , इत्याह -

ममेति ।

भगवद्भजनभागिनां सर्वेषामेव कैवल्यमेकरूपं किमिति नानुगृह्यते ? तत्राह -

तेषामिति ।

अभ्युदयनिःश्रेयसार्थित्वं प्रार्थनावैचित्र्यादेकस्यैव किं न स्याद् ? इत्याशङ्क्य, पर्यायेण तदनुपपत्तिं साधयति -

नहीति ।

 मुमुक्षूणां फलार्थिनां च विभागे स्थिते सति  अनुग्रहविभागं फलितमाह -

अत इति ।

फलप्रदानेनानुगृह्णामीति सम्बन्धः ।

नित्यनैमित्तिककर्मानुष्ठायिनामेव फलार्थित्वाभावे सति, मुमुक्षुत्वे कथं तेष्वनुग्रहः स्यात् ? इति तत्राह -

ये यथोक्तेति ।

ज्ञानप्रदानेन भजामीत्युत्तरत्र सम्बन्धः ।

सन्ति केचित् त्यक्तसर्वकर्माणो ज्ञानिनो मोक्षमेवापेक्षमाणाः, तेष्वनुग्रहप्रकारं प्रकटयति -

ये ज्ञानिन इति ।

केचिदार्ताः सन्तो ज्ञानादिसाधनान्तररहिता भगवन्तमेवार्तिमपहर्तुमनुवर्तन्ते, तेषु भगवतोऽनुग्रहविशेषं दर्शयति-

तथेति ।

पूर्वार्धव्याख्यानमुपसंहरति -

इत्येवमिति ।

भगवतोऽनुग्रहे निमित्तान्तरं निवारयति -

न पुनरिति ।

फलार्थित्वे मुमुक्षुत्वे च जन्तूनां भगवदनुसरणमावश्यकम् इत्युत्तरार्धं विभजते -

सर्वथाऽपीति ।

सर्वावस्थत्वं - तेन तेनात्मना परस्यैवेश्वरस्यावस्थानम् ।

मार्गः - ज्ञानकर्मलक्षणः । मनुष्यग्रहणाद् इतरेषामीश्वरमार्गानुवर्तित्वपर्युदासः स्याद् , इत्याशङ्क्याह -

यत्फलेति ।

सर्वप्रकारैर्मम मार्गमनुवर्तन्त इति पूर्वेण सम्बन्धः

॥ ११ ॥