श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥
ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां प्रपद्यन्ते तान् तथैव तत्फलदानेन भजामि अनुगृह्णामि अहम् इत्येतत् । तेषां मोक्षं प्रति अनर्थित्वात् । न हि एकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् सम्भवति । अतः ये फलार्थिनः तान् फलप्रदानेन, ये यथोक्तकारिणस्तु अफलार्थिनः मुमुक्षवश्च तान् ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिनः मुमुक्षवश्च तान् मोक्षप्रदानेन, तथा आर्तान् आर्तिहरणेन इत्येवं यथा प्रपद्यन्ते ये तान् तथैव भजामि इत्यर्थः । न पुनः रागद्वेषनिमित्तं मोहनिमित्तं वा कञ्चित् भजामि । सर्वथापि सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः — यत्फलार्थितया यस्मिन् कर्मणि अधिकृताः ये प्रयतन्ते ते मनुष्या अत्र उच्यन्ते — हे पार्थ सर्वशः सर्वप्रकारैः ॥ ११ ॥

मुमुक्षूणामीश्वरानुसारित्वेऽपि फलान्तरार्थिनां कुतस्तदनुसारित्वम् ? इत्याशङ्क्य ‘फलमत उपपत्ते’ (ब्र. सू. ३-२-३८) इति न्यायेन तत्फलस्येश्वरायत्तत्वात् तदनुवर्तित्वमावश्यकम् , इत्याह -

ममेति ।

भगवद्भजनभागिनां सर्वेषामेव कैवल्यमेकरूपं किमिति नानुगृह्यते ? तत्राह -

तेषामिति ।

अभ्युदयनिःश्रेयसार्थित्वं प्रार्थनावैचित्र्यादेकस्यैव किं न स्याद् ? इत्याशङ्क्य, पर्यायेण तदनुपपत्तिं साधयति -

नहीति ।

 मुमुक्षूणां फलार्थिनां च विभागे स्थिते सति  अनुग्रहविभागं फलितमाह -

अत इति ।

फलप्रदानेनानुगृह्णामीति सम्बन्धः ।

नित्यनैमित्तिककर्मानुष्ठायिनामेव फलार्थित्वाभावे सति, मुमुक्षुत्वे कथं तेष्वनुग्रहः स्यात् ? इति तत्राह -

ये यथोक्तेति ।

ज्ञानप्रदानेन भजामीत्युत्तरत्र सम्बन्धः ।

सन्ति केचित् त्यक्तसर्वकर्माणो ज्ञानिनो मोक्षमेवापेक्षमाणाः, तेष्वनुग्रहप्रकारं प्रकटयति -

ये ज्ञानिन इति ।

केचिदार्ताः सन्तो ज्ञानादिसाधनान्तररहिता भगवन्तमेवार्तिमपहर्तुमनुवर्तन्ते, तेषु भगवतोऽनुग्रहविशेषं दर्शयति-

तथेति ।

पूर्वार्धव्याख्यानमुपसंहरति -

इत्येवमिति ।

भगवतोऽनुग्रहे निमित्तान्तरं निवारयति -

न पुनरिति ।

फलार्थित्वे मुमुक्षुत्वे च जन्तूनां भगवदनुसरणमावश्यकम् इत्युत्तरार्धं विभजते -

सर्वथाऽपीति ।

सर्वावस्थत्वं - तेन तेनात्मना परस्यैवेश्वरस्यावस्थानम् ।

मार्गः - ज्ञानकर्मलक्षणः । मनुष्यग्रहणाद् इतरेषामीश्वरमार्गानुवर्तित्वपर्युदासः स्याद् , इत्याशङ्क्याह -

यत्फलेति ।

सर्वप्रकारैर्मम मार्गमनुवर्तन्त इति पूर्वेण सम्बन्धः

॥ ११ ॥