श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥
तव तर्हि रागद्वेषौ स्तः, येन केभ्यश्चिदेव आत्मभावं प्रयच्छसि न सर्वेभ्यः इत्युच्यते —

ईश्वरः सर्वेभ्यो भूतेभ्यो मोक्षं प्रयच्छति चेत् , प्रागुक्तविशेषणवैयर्थ्यं ; यदि तु केभ्यश्चिदेव मोक्षं प्रयच्छेत् , तर्हि, तस्य रागादिमत्त्वादनीश्वरत्वापत्तिः, इति शङ्कते -

तव तर्हीति ।

ये मुमुक्षवः, तेभ्यो मोक्षमीश्वरो ज्ञानसम्पादनद्वारा प्रयच्छति, फलान्तरार्थिभ्यस्तु तत्तदुपायानुष्ठानेन तत्तदेव ददातीति, नास्य रागद्वेषौ इति परिहरति -

उच्यत इति ।