कर्मफलसिद्धिमिच्छता किमिति मानुषे लोके देवतापूजनमिष्यते ? तत्राह -
क्षिप्रं हीति ।
कर्मफलसम्पत्त्यर्थिनां यष्टृयष्टव्यविभागदर्शिनां तद्दर्शने कारणमात्माज्ञानम् , इत्यत्र बृहदारण्यकश्रुतिमुदाहरति -
अथेति ।
अविद्याप्रकरणोपक्रमार्थमथेत्युक्तम् ।
उपासनं भेददर्शनमित्यनूद्य, कारणमात्माज्ञानं तत्र, इति दर्शयति -
नेति ।
यथा अस्मदादीनां हलवहनादिना पशुरुपकरोति, एवमज्ञो देवादीनां यागादिभिरुपकरोति, इत्याह -
यथेति ।
किमिति ते फलाकाङूक्षिणो भिन्नदेवतायादिनो ज्ञानमार्गं नापेक्षन्ते ? तत्रोत्तरार्धमुत्तरत्वेन योजयति -
तेषामित्यादिना ।
यस्माद् यथोक्तानामधिकारिणां कर्मप्रयुक्तं फलं लोकविशिषे झटिति सिध्यति, तस्मात् तेषांं मोक्षमार्गादस्ति वैमुख्यमित्यर्थः ।
मानुषलोकविशेषणं किमर्थम् ? इत्याशङ्क्याह -
मनुष्यलोके हीति ।
लोकान्तरेषु तर्हि कर्मफलसिद्धिर्नास्ति, इत्याशङ्क्य, क्षिप्रविशेषणस्य तात्पर्यमाह -
क्षिप्रमिति ।
क्वचित् कर्मफलसिद्धिरविलम्बेन भवति, अन्यत्र तु विलम्बेन इति विभागे को हेतुः ? इत्याशङ्क्य, सामग्राीभावाभावाभ्याम् , इत्याह -
मानुष इति ।
मनुष्यलोके कर्मफलसिद्धेः शैघ्र्यात् तदभिमुखानां ज्ञानमार्गवैमुख्यं प्रायिकमित्युपसंहरति -
तेषामिति
॥ १२ ॥