श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥
काङ्क्षन्तः अभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थयन्तः यजन्ते इह अस्मिन् लोके देवताः इन्द्राग्न्याद्याः ; अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति वेद यथा पशुरेवं देवानाम्’ (बृ. उ. १ । ४ । १०) इति श्रुतेःतेषां हि भिन्नदेवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मात् मानुषे लोके, मनुष्यलोके हि शास्त्राधिकारः । ‘क्षिप्रं हि मानुषे लोकेइति विशेषणात् अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान्मानुषे लोके वर्णाश्रमादिकर्माणि इति विशेषः, तेषां वर्णाश्रमाद्यधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवतिकर्मजा कर्मणो जाता ॥ १२ ॥

कर्मफलसिद्धिमिच्छता किमिति मानुषे लोके देवतापूजनमिष्यते ? तत्राह -

क्षिप्रं हीति ।

कर्मफलसम्पत्त्यर्थिनां यष्टृयष्टव्यविभागदर्शिनां तद्दर्शने कारणमात्माज्ञानम् , इत्यत्र बृहदारण्यकश्रुतिमुदाहरति -

अथेति ।

अविद्याप्रकरणोपक्रमार्थमथेत्युक्तम् ।

उपासनं भेददर्शनमित्यनूद्य, कारणमात्माज्ञानं तत्र, इति दर्शयति -

नेति ।

यथा अस्मदादीनां हलवहनादिना पशुरुपकरोति, एवमज्ञो देवादीनां यागादिभिरुपकरोति, इत्याह -

यथेति ।

किमिति ते फलाकाङूक्षिणो भिन्नदेवतायादिनो ज्ञानमार्गं नापेक्षन्ते ? तत्रोत्तरार्धमुत्तरत्वेन योजयति -

तेषामित्यादिना ।

यस्माद् यथोक्तानामधिकारिणां कर्मप्रयुक्तं फलं लोकविशिषे झटिति सिध्यति, तस्मात्  तेषांं मोक्षमार्गादस्ति वैमुख्यमित्यर्थः ।

मानुषलोकविशेषणं किमर्थम् ? इत्याशङ्क्याह -

मनुष्यलोके हीति ।

लोकान्तरेषु तर्हि कर्मफलसिद्धिर्नास्ति, इत्याशङ्क्य, क्षिप्रविशेषणस्य तात्पर्यमाह -

क्षिप्रमिति ।

क्वचित् कर्मफलसिद्धिरविलम्बेन भवति, अन्यत्र तु विलम्बेन इति विभागे को हेतुः ? इत्याशङ्क्य, सामग्राीभावाभावाभ्याम् , इत्याह -

मानुष इति ।

मनुष्यलोके कर्मफलसिद्धेः शैघ्र्यात् तदभिमुखानां ज्ञानमार्गवैमुख्यं प्रायिकमित्युपसंहरति -

तेषामिति

॥ १२ ॥