अनुग्राह्याणां ज्ञानकर्मानुरोधेन भगवता तेष्वनुग्रहविधानात् तस्य रागद्वेषौ यदि न भवतः, तर्हि तस्य रागाद्यभावादेव सर्वेषु प्राणिष्वनुग्रहेच्छा तुल्या प्राप्ता, नच तस्यां सत्यामेव फलस्याल्पीयसः सम्पादने सामर्थ्यं, नतु भगवतो महतो मोक्षाख्यस्य फलस्य प्रदानेऽशक्तिरिति युक्तम् , अप्रतिहतज्ञानेच्छाक्रियाशक्तिमतस्तव सर्वफलप्रदान सामर्थ्यात् । तथाच यथोक्तानुजिघृक्षायां सत्यां, त्वयि च यथोक्तसामर्थ्यवति सति, सर्वे फल्गुफलाद् अभ्युदयाद्विमुखा मोक्षमेवापेक्षमाणा ज्ञानेन त्वामेव किमिति न प्रतिपद्येरन् ? इति चोदयति -
यदीति ।
मोक्षापेक्षाभावात् तदुपायभूतज्ञानादपि वैमुख्याद् भगवत्प्राप्त्यभावे हेतुमभिदधानः समाधत्ते -
श्रृण्विति ।