श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ १३ ॥
चत्वार एव वर्णाः चातुर्वर्ण्यं मया ईश्वरेण सृष्टम् उत्पादितम् , ब्राह्मणोऽस्य मुखमासीत्’ (ऋ. १० । ८ । ९१) इत्यादिश्रुतेःगुणकर्मविभागशः गुणविभागशः कर्मविभागशश्चगुणाः सत्त्वरजस्तमांसितत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य शमो दमस्तपः’ (भ. गी. १८ । ४२) इत्यादीनि कर्माणि, सत्त्वोपसर्जनरजःप्रधानस्य क्षत्रियस्य शौर्यतेजःप्रभृतीनि कर्माणि, तमउपसर्जनरजःप्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि, रजउपसर्जनतमःप्रधानस्य शूद्रस्य शुश्रूषैव कर्म इत्येवं गुणकर्मविभागशः चातुर्वर्ण्यं मया सृष्टम् इत्यर्थःतच्च इदं चातुर्वर्ण्यं अन्येषु लोकेषु, अतः मानुषे लोके इति विशेषणम्हन्त तर्हि चातुर्वर्ण्यस्य सर्गादेः कर्मणः कर्तृत्वात् तत्फलेन युज्यसे, अतः त्वं नित्यमुक्तः नित्येश्वरश्च इति ? उच्यतेयद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मां परमार्थतः विद्धि अकर्तारम्अत एव अव्ययम् असंसारिणं मां विद्धि ॥ १३ ॥

तर्हि, तव कर्तृत्वभोक्तृत्वसम्भवात् अस्मदादितुल्यत्वेनानीश्वरत्वम् , इत्याशङ्क्याह -

तस्येति ।

ईश्वरस्य विषमसृष्टिं विदधानस्य सृष्टिवैषम्यनिर्वाहकं कथयति -

गुणेति ।

गुणविभागेन कर्मविभागः । तेन चातुर्वर्ण्यस्य सृष्टिमेवोपदिष्टां स्पष्टयति -

तत्रेत्यादिना ।

प्रश्नद्वयप्रतिविधानं प्रकृतमुपसम्हरति -

तच्चेदमिति ।

मनुष्यलोके परं वर्णाश्रमादिपूर्वके कर्मण्यधिकारः, तत्रैव वर्णादेरीश्वरेण सृष्टत्वात् , न लोकान्तरेषु, तत्र वर्णाद्यभावात् , ईश्वरमेव चातुर्वर्ण्याश्रमादिविभागिनोऽधिकारिणोऽनुवर्तन्ते, तेनैव वर्णादेस्तद्व्यापारस्य च सृष्टत्वात् तदनुवर्तनस्य युक्तत्वादित्यर्थः ।

तस्येत्यादि द्वितीयभागापोह्यं चोद्यमनुद्रवति -

हन्तेति ।

यदि चातुर्वर्ण्यादिकर्तृत्वादीश्वरस्य प्रागुक्तो नियमोऽभिमतः, तर्हि, तद्विषयसृष्ट्यादेः तन्निष्ठव्यापारस्य च धर्मादेर्निवर्तकत्वात् तत्फलस्य कर्तृगामित्वात् कर्तृत्वभोक्तृत्वयोस्त्वयि प्रसङ्गात् नित्यमुक्तत्वादि ते न स्यादित्यर्थः ।

मायया कर्तृत्वं, परमार्थतश्चाकर्तृत्वम् , इत्यभ्युपगमात् नित्यमुक्तत्वादि सिध्यति, इत्युत्तरमाह -

उच्यत इति ।

मायावृत्त्यादिसंव्यवहारेण चातुर्वणर्यादेस्तत्कर्मणश्च यद्यपि कर्ताऽहं, तथाऽपि तथाविधं मां परमार्थतोऽकर्तारं विद्धीति योजना ।

अकर्तृत्वादेवाभोक्तृत्वसिद्धिः, इत्याह -

अत एवेति

॥ १३ ॥