श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ १३ ॥
चत्वार एव वर्णाः चातुर्वर्ण्यं मया ईश्वरेण सृष्टम् उत्पादितम् , ‘ब्राह्मणोऽस्य मुखमासीत्’ (ऋ. १० । ८ । ९१) इत्यादिश्रुतेः । गुणकर्मविभागशः गुणविभागशः कर्मविभागशश्च । गुणाः सत्त्वरजस्तमांसि । तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य ‘शमो दमस्तपः’ (भ. गी. १८ । ४२) इत्यादीनि कर्माणि, सत्त्वोपसर्जनरजःप्रधानस्य क्षत्रियस्य शौर्यतेजःप्रभृतीनि कर्माणि, तमउपसर्जनरजःप्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि, रजउपसर्जनतमःप्रधानस्य शूद्रस्य शुश्रूषैव कर्म इत्येवं गुणकर्मविभागशः चातुर्वर्ण्यं मया सृष्टम् इत्यर्थः । तच्च इदं चातुर्वर्ण्यं न अन्येषु लोकेषु, अतः मानुषे लोके इति विशेषणम् । हन्त तर्हि चातुर्वर्ण्यस्य सर्गादेः कर्मणः कर्तृत्वात् तत्फलेन युज्यसे, अतः न त्वं नित्यमुक्तः नित्येश्वरश्च इति ? उच्यते — यद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मां परमार्थतः विद्धि अकर्तारम् । अत एव अव्ययम् असंसारिणं च मां विद्धि ॥ १३ ॥

तर्हि, तव कर्तृत्वभोक्तृत्वसम्भवात् अस्मदादितुल्यत्वेनानीश्वरत्वम् , इत्याशङ्क्याह -

तस्येति ।

ईश्वरस्य विषमसृष्टिं विदधानस्य सृष्टिवैषम्यनिर्वाहकं कथयति -

गुणेति ।

गुणविभागेन कर्मविभागः । तेन चातुर्वर्ण्यस्य सृष्टिमेवोपदिष्टां स्पष्टयति -

तत्रेत्यादिना ।

प्रश्नद्वयप्रतिविधानं प्रकृतमुपसम्हरति -

तच्चेदमिति ।

मनुष्यलोके परं वर्णाश्रमादिपूर्वके कर्मण्यधिकारः, तत्रैव वर्णादेरीश्वरेण सृष्टत्वात् , न लोकान्तरेषु, तत्र वर्णाद्यभावात् , ईश्वरमेव चातुर्वर्ण्याश्रमादिविभागिनोऽधिकारिणोऽनुवर्तन्ते, तेनैव वर्णादेस्तद्व्यापारस्य च सृष्टत्वात् तदनुवर्तनस्य युक्तत्वादित्यर्थः ।

तस्येत्यादि द्वितीयभागापोह्यं चोद्यमनुद्रवति -

हन्तेति ।

यदि चातुर्वर्ण्यादिकर्तृत्वादीश्वरस्य प्रागुक्तो नियमोऽभिमतः, तर्हि, तद्विषयसृष्ट्यादेः तन्निष्ठव्यापारस्य च धर्मादेर्निवर्तकत्वात् तत्फलस्य कर्तृगामित्वात् कर्तृत्वभोक्तृत्वयोस्त्वयि प्रसङ्गात् नित्यमुक्तत्वादि ते न स्यादित्यर्थः ।

मायया कर्तृत्वं, परमार्थतश्चाकर्तृत्वम् , इत्यभ्युपगमात् नित्यमुक्तत्वादि सिध्यति, इत्युत्तरमाह -

उच्यत इति ।

मायावृत्त्यादिसंव्यवहारेण चातुर्वणर्यादेस्तत्कर्मणश्च यद्यपि कर्ताऽहं, तथाऽपि तथाविधं मां परमार्थतोऽकर्तारं विद्धीति योजना ।

अकर्तृत्वादेवाभोक्तृत्वसिद्धिः, इत्याह -

अत एवेति

॥ १३ ॥