श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मानुषे एव लोके वर्णाश्रमादिकर्माधिकारः, अन्येषु लोकेषु इति नियमः किंनिमित्त इति ? अथवा वर्णाश्रमादिप्रविभागोपेताः मनुष्याः मम वर्त्म अनुवर्तन्ते सर्वशः इत्युक्तम्कस्मात्पुनः कारणात् नियमेन तवैव वर्त्म अनुवर्तन्ते अन्यस्य इति ? उच्यते

मनुष्यलोके ‘चातुर्वर्ण्यं, चातुराश्रम्यम् ‘ इत्यनेन द्वारेण कर्माधिकारनियमे कारणं पृच्छति -

मानुष एवेति ।

आदिशब्देनावस्थाविशेषा विवक्ष्यन्ते ।

प्रकारान्तरेण वृत्तानुवादपूर्वकं चोद्यमुत्थापयति -

अथवेत्यादिना ।

प्रश्नद्वयं परिहरति -

उच्यत इति ।