श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मां कर्माणि लिम्पन्ति मे कर्मफले स्पृहा
इति मां योऽभिजानाति कर्मभिर्न बध्यते ॥ १४ ॥
मां तानि कर्माणि लिम्पन्ति देहाद्यारम्भकत्वेन, अहङ्काराभावात् तेषां कर्मणां फलेषु मे मम स्पृहा तृष्णायेषां तु संसारिणाम्अहं कर्ताइत्यभिमानः कर्मसु, स्पृहा तत्फलेषु , तान् कर्माणि लिम्पन्ति इति युक्तम् , तदभावात् मां कर्माणि लिम्पन्तिइति एवं यः अन्योऽपि माम् आत्मत्वेन अभिजानातिनाहं कर्ता मे कर्मफले स्पृहाइति सः कर्मभिः बध्यते, तस्यापि देहाद्यारम्भकाणि कर्माणि भवन्ति इत्यर्थः ॥ १४ ॥

कर्मतत्फलसंस्पर्शशून्यमीश्वरं पश्यतो दर्शनानुरूपं फलं दर्शयति -

न मामिति ।

तानि कर्माणीति येषां कर्मणामहं कर्ता तवाभिमतः, तानीति यावत् ।

देहेन्द्रियाद्यारम्भकत्वेन तेषां कर्मणामीश्वरे संस्पर्शाभावे, तस्य तत्करणावस्थायामहङ्काराभावं हेतुं करोति -

अहङ्काराभावादिति ।

कर्मफलतृष्णाभावाच्चेश्वरं कर्माणि न लिम्पन्ति, इत्याह-

नचेति ।

उक्तमेव प्रपञ्चयति -

येषां त्विति ।

तदभावात् -कर्मसु ‘अहं कर्ता’ इत्यभिमानस्य, तत्फलेषु स्पृहायाश्चाभावादित्यर्थः ।

ईश्वरस्य कर्मनिर्लेपेऽपि, क्षेत्रज्ञस्य किमायातम् ? इत्याशङ्क्य, उत्तरार्धं व्याचष्टे -

इत्येवमिति ।

अभिज्ञानप्रकारमभिनयति -

नाहमिति ।

ज्ञानफलं कथयति -

स कर्मभिरिति ।

कर्मासम्बन्धं विदुषि विशदयति -

तस्यापीति

॥ १४ ॥