श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥
एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि अतिक्रान्तैः मुमुक्षुभिःकुरु तेन कर्मैव त्वम् , तूष्णीमासनं नापि संन्यासः कर्तव्यः, तस्मात् त्वं पूर्वैरपि अनुष्ठितत्वात् , यदि अनात्मज्ञः त्वं तदा आत्मशुद्ध्यर्थम् , तत्त्वविच्चेत् लोकसङ्ग्रहार्थं पूर्वैः जनकादिभिः पूर्वतरं कृतं अधुनातनं कृतं निर्वर्तितम् ॥ १५ ॥

तस्मादित्युक्तमेव स्फुटयति -

पूर्वैरिति ।

यदुक्तं किं मम कर्मणेति, तत्र त्वमज्ञो वा, तत्त्वविद्वा ? । यद्यज्ञः, तदा चित्तशुद्ध्यर्थं कुरु कर्म इत्याह -

यदीति ।

द्वितीयं प्रत्याह -

तत्त्वविदिति ।

कुरु कर्मेति सम्बन्धः ।

पूर्वैर्मूढैराचरितमित्येतावता किमिति विवेकवता मया तत्कर्तव्यम् ? इत्याशङ्क्याह -

जनकादिभिरिति ।

ते तावत् एवं सम्पाद्य कर्म कृतवन्तो, न तदिदानीमप्रामाणिकत्वादनुष्ठेयम् , इत्याशङ्क्याह -

पूर्वतरमिति

॥ १५ ॥