तस्मादित्युक्तमेव स्फुटयति -
पूर्वैरिति ।
यदुक्तं किं मम कर्मणेति, तत्र त्वमज्ञो वा, तत्त्वविद्वा ? । यद्यज्ञः, तदा चित्तशुद्ध्यर्थं कुरु कर्म इत्याह -
यदीति ।
द्वितीयं प्रत्याह -
तत्त्वविदिति ।
कुरु कर्मेति सम्बन्धः ।
पूर्वैर्मूढैराचरितमित्येतावता किमिति विवेकवता मया तत्कर्तव्यम् ? इत्याशङ्क्याह -
जनकादिभिरिति ।
ते तावत् एवं सम्पाद्य कर्म कृतवन्तो, न तदिदानीमप्रामाणिकत्वादनुष्ठेयम् , इत्याशङ्क्याह -
पूर्वतरमिति
॥ १५ ॥