तव कर्मतत्फलसम्बन्धाभावे, तथा ज्ञानवतश्च तदसम्बन्धे, ममापि किं कर्मणा इत्याशङ्क्य, कर्मणि कर्तृत्वाभिमानं, तत्फले स्पृहां चाकृत्वा, मुमुक्षुवत् त्वया कर्म कर्तव्यमेव, इत्याह -
नाहमित्यादिना ।
नाहं कर्तेत्येवमादि एवमा परामृश्यते । तेन - पूर्वैेर्मुमुक्षुभिरनुष्ठितत्वेन हेतुनेत्यर्थः ।
कर्मैवेत्येवकारार्थमाह -
नेत्यादिना ।
त्वं शब्दस्य क्रियापदेन सम्बन्धः ।