श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किं कर्म किमकर्मेति
कवयोऽप्यत्र मोहिताः
तत्ते कर्म प्रवक्ष्यामि
यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥
किं कर्म किं अकर्म इति कवयः मेधाविनः अपि अत्र अस्मिन् कर्मादिविषये मोहिताः मोहं गताःतत् अतः ते तुभ्यम् अहं कर्म अकर्म प्रवक्ष्यामि, यत् ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसे अशुभात् संसारात् ॥ १६ ॥

विज्ञानवतामपि कर्मादिविषये व्यामोहोपपत्तेः, सुतरामेव तव तद्विषये व्यामोहसम्भवात् , तदपोहार्थमाप्तवाक्यापेक्षणाद् , अस्ति कर्मणि वैषम्यम् , इत्युत्तरमाह -

किं कर्मेति ।

‘तत् ते कर्म’ (भ. गी. ४-१६) इत्यत्र अकारानुबन्धेनापि पदं छेत्तव्यम् ।

कर्मादिप्रवचनस्य प्रयोजनमाह -

यज्ज्ञात्वेति ।

तत् कर्माकर्म चेति सम्बन्धः । अतः मेधाविनामपि यथोक्ते विषये व्यामोहस्य सत्त्वादित्यर्थः ।

॥ १६ ॥