विज्ञानवतामपि कर्मादिविषये व्यामोहोपपत्तेः, सुतरामेव तव तद्विषये व्यामोहसम्भवात् , तदपोहार्थमाप्तवाक्यापेक्षणाद् , अस्ति कर्मणि वैषम्यम् , इत्युत्तरमाह -
किं कर्मेति ।
‘तत् ते कर्म’ (भ. गी. ४-१६) इत्यत्र अकारानुबन्धेनापि पदं छेत्तव्यम् ।
कर्मादिप्रवचनस्य प्रयोजनमाह -
यज्ज्ञात्वेति ।
तत् कर्माकर्म चेति सम्बन्धः । अतः मेधाविनामपि यथोक्ते विषये व्यामोहस्य सत्त्वादित्यर्थः ।
॥ १६ ॥