श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किं कर्म किमकर्मेति
कवयोऽप्यत्र मोहिताः
तत्ते कर्म प्रवक्ष्यामि
यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥
तत्र कर्म चेत् कर्तव्यं त्वद्वचनादेव करोम्यहम् , किं विशेषितेन ‘पूर्वैः पूर्वतरं कृतम्’ इत्युच्यते ; यस्मात् महत् वैषम्यं कर्मणि । कथम् ? —

कर्मविशेषणमाक्षिपति -

तत्रेति ।

मनुष्यलोकः सप्तम्यर्थः ।

कर्मणि महतो वैषम्यस्य विद्यमानत्वात् तस्य पूर्वैरनुष्ठितत्वेन पूर्वतरत्वेन च विशेषितत्वे, तस्मिन् प्रवृत्तिस्तव सुकरा, इति युक्तं विशेषणम् , इति परिहरति -

उच्यत इति ।

कर्मणि देहादिचेष्टारूपे लोकप्रसिद्धे नास्ति वैषम्यम् , इति शङ्कते -

कथमिति ।