कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥
कर्मणः शास्त्रविहितस्य हि यस्मात् अपि अस्ति बोद्धव्यम् , बोद्धव्यं च अस्त्येव विकर्मणः प्रतिषिद्धस्य, तथा अकर्मणश्च तूष्णीम्भावस्य बोद्धव्यम् अस्ति इति त्रिष्वप्यध्याहारः कर्तव्यः । यस्मात् गहना विषमा दुर्ज्ञेया — कर्मणः इति उपलक्षणार्थं कर्मादीनाम् — कर्माकर्मविकर्मणां गतिः याथात्म्यं तत्त्वम् इत्यर्थः ॥ १७ ॥