श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं विकर्मणः
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥
कर्मणः शास्त्रविहितस्य हि यस्मात् अपि अस्ति बोद्धव्यम् , बोद्धव्यं अस्त्येव विकर्मणः प्रतिषिद्धस्य, तथा अकर्मणश्च तूष्णीम्भावस्य बोद्धव्यम् अस्ति इति त्रिष्वप्यध्याहारः कर्तव्यःयस्मात् गहना विषमा दुर्ज्ञेयाकर्मणः इति उपलक्षणार्थं कर्मादीनाम्कर्माकर्मविकर्मणां गतिः याथात्म्यं तत्त्वम् इत्यर्थः ॥ १७ ॥

बोद्धव्यसद्भावे हेतुमाह -

यस्मादिति ।

त्रितयं प्रकृत्य अन्यतमस्य गहनत्ववचनमयुक्तमित्याशङ्क्य, अन्यतमग्रहणस्योपलक्षणार्थत्वमुपेत्य, विवक्षितमर्थमाह -

कर्मादीनामिति

॥ १७ ॥