कर्मणोऽकर्मणश्च प्रसिद्धत्वात् तद्विषये न किञ्चिद् बोद्धव्यम् , इति चोद्यमनूद्य निरस्यति -
नचेति
तत्र हेत्वाकाङूक्षापूर्वकमनन्तरं श्लोकमवतारयति -
कस्मादिति ।
त्रिष्वपि कर्माकर्मविकर्मसु बोद्धव्यमस्तीति यस्मात् अध्याहारः, तस्माद् मदीयं प्रवचनमर्थवदिति योजना ।