श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
चैतत्त्वया मन्तव्यम्कर्म नाम देहादिचेष्टा लोकप्रसिद्धम् , अकर्म नाम तदक्रिया तूष्णीमासनम् ; किं तत्र बोद्धव्यम् ? इतिकस्मात् , उच्यते

कर्मणोऽकर्मणश्च प्रसिद्धत्वात् तद्विषये न किञ्चिद् बोद्धव्यम् , इति चोद्यमनूद्य निरस्यति -

नचेति

तत्र हेत्वाकाङूक्षापूर्वकमनन्तरं श्लोकमवतारयति -

कस्मादिति ।

त्रिष्वपि कर्माकर्मविकर्मसु बोद्धव्यमस्तीति यस्मात् अध्याहारः, तस्माद् मदीयं प्रवचनमर्थवदिति योजना ।