प्रथमपादस्याक्षरोत्थमर्थं कथयति -
कर्मणीत्यादिना ।
द्वितीयपादस्यापि शब्दप्रकाशितमर्थं निर्दिशति -
अकर्मणि चेति ।
कर्माभावे यः कर्म पश्यतीति सम्बन्धः ।
प्रवृत्तेरेव कर्मत्वात् निवृत्तेस्तदभावत्वात् तत्र कथं कर्मदर्शनमित्याशङ्क्य, द्वयोरपि कारकाधीनत्वेनाविशेषमभिप्रोयाह -
कर्तृतन्त्रत्वादिति ।
प्रवृत्ताविव निवृत्तावपि, कर्मदर्शनमविरुद्धमिति शेषः ।
ननु निवृत्तेर्वस्त्वधीनत्वात् कारकनिबन्धनाभावान्न तत्र कर्मदर्शनं युज्यते, तत्राह -
वस्त्विति ।
क्रियाकारकफलव्यवहारस्य सर्वस्याविद्यावस्थायामेव प्रवृत्तत्वाद् वस्तुसंस्पर्शशून्यत्वात् प्रवृत्तिवन्निवृत्तावपि यः कर्म पश्यति, स मनुष्येषु बुद्धिमानिति सम्बन्धः ।
कर्मण्यकर्म अकर्मणि च कर्म पश्यतो बुद्धिमत्त्वं, युक्तत्वं समस्तकर्मकृत्त्वं च कथमित्याशङ्क्याह -
इति स्तूयत इति ।