श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येदकर्मणि कर्म यः
बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
कर्मणि, क्रियते इति कर्म व्यापारमात्रम् , तस्मिन् कर्मणि अकर्म कर्माभावं यः पश्येत् , अकर्मणि कर्माभावे कर्तृतन्त्रत्वात् प्रवृत्तिनिवृत्त्योःवस्तु अप्राप्यैव हि सर्व एव क्रियाकारकादिव्यवहारः अविद्याभूमौ एवकर्म यः पश्येत् पश्यति, सः बुद्धिमान् मनुष्येषु, सः युक्तः योगी , कृत्स्नकर्मकृत् समस्तकर्मकृच्च सः, इति स्तूयते कर्माकर्मणोरितरेतरदर्शी

प्रथमपादस्याक्षरोत्थमर्थं कथयति -

कर्मणीत्यादिना ।

द्वितीयपादस्यापि  शब्दप्रकाशितमर्थं निर्दिशति -

अकर्मणि चेति ।

कर्माभावे यः कर्म पश्यतीति सम्बन्धः ।

प्रवृत्तेरेव कर्मत्वात् निवृत्तेस्तदभावत्वात् तत्र कथं कर्मदर्शनमित्याशङ्क्य, द्वयोरपि कारकाधीनत्वेनाविशेषमभिप्रोयाह -

कर्तृतन्त्रत्वादिति ।

प्रवृत्ताविव निवृत्तावपि, कर्मदर्शनमविरुद्धमिति शेषः ।

ननु निवृत्तेर्वस्त्वधीनत्वात् कारकनिबन्धनाभावान्न तत्र कर्मदर्शनं युज्यते, तत्राह -

वस्त्विति ।

क्रियाकारकफलव्यवहारस्य सर्वस्याविद्यावस्थायामेव प्रवृत्तत्वाद् वस्तुसंस्पर्शशून्यत्वात् प्रवृत्तिवन्निवृत्तावपि यः कर्म पश्यति, स मनुष्येषु बुद्धिमानिति सम्बन्धः ।

कर्मण्यकर्म अकर्मणि च कर्म पश्यतो बुद्धिमत्त्वं, युक्तत्वं समस्तकर्मकृत्त्वं च कथमित्याशङ्क्याह  -

इति स्तूयत इति ।