श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येदकर्मणि कर्म यः
बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
ननु किमिदं विरुद्धमुच्यतेकर्मणि अकर्म यः पश्येत्इतिअकर्मणि कर्मइति ; हि कर्म अकर्म स्यात् , अकर्म वा कर्मतत्र विरुद्धं कथं पश्येत् द्रष्टा ? — , अकर्म एव परमार्थतः सत् कर्मवत् अवभासते मूढदृष्टेः लोकस्य, तथा कर्मैव अकर्मवत्तत्र यथाभूतदर्शनार्थमाह भगवान् — ‘कर्मण्यकर्म यः पश्येत्इत्यादिअतो विरुद्धम्बुद्धिमत्त्वाद्युपपत्तेश्चबोद्धव्यम्’ (भ. गी. ४ । १७) इति यथाभूतदर्शनमुच्यते विपरीतज्ञानात् अशुभात् मोक्षणं स्यात् ; यत् ज्ञात्वा मोक्ष्यसेऽशुभात्’ (भ. गी. ४ । १६) इति उक्तम्तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः तद्विपर्ययग्रहणनिवृत्त्यर्थं भगवतो वचनम्कर्मण्यकर्म यःइत्यादि अत्र कर्माधिकरणमकर्म अस्ति, कुण्डे बदराणीवनापि अकर्माधिकरणं कर्मास्ति, कर्माभावत्वादकर्मणःअतः विपरीतगृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायामुदकं शुक्तिकायां वा रजतम्ननु कर्म कर्मैव सर्वेषां क्वचित् व्यभिचरतितत् , नौस्थस्य नावि गच्छन्त्यां तटस्थेषु अगतिषु नगेषु प्रतिकूलगतिदर्शनात् , दूरेषु चक्षुषा असंनिकृष्टेषु गच्छत्सु गत्यभावदर्शनात् , एवम् इहापि अकर्मणि कर्मदर्शनं कर्मणि अकर्मदर्शनं विपरीतदर्शनं येन तन्निराकरणार्थमुच्यतेकर्मण्यकर्म यः पश्येत्इत्यादि

श्लोकस्य शब्दोत्थेऽर्थे दर्शिते, तात्पर्यार्थापरिज्ञानान्मिथो विरोधं शङ्क्तते -

नन्विति ।

कथमिदं विरुद्धम् ? इत्याशङ्क्य, कर्मणीति विषयसप्तमी वा स्यात् ? अधिकरणसप्तमी वा ? इति विकल्प्य, आद्ये - अन्याकारं ज्ञानमन्यावलम्बनमिति स्पष्टो विरोधः स्याद् , इत्याह -

नहीति ।

अन्यस्यान्यात्मतायोगात् कर्माकर्मणोरभेदासम्भवादकर्माकारं कर्मावलम्बनं ज्ञानम् अयुक्तमित्यर्थः ।

द्वितीयं दूषयति -

तत्रेति ।

कर्मण्यधिकरणे ततो विरुद्धमकर्म कथमाधेयं द्रष्टा द्रष्टुमीष्टे । नहि कर्माकर्मणोर्मिथो विरुद्धयोराधाराधेयभावः सम्भवतीत्यर्थः ।

विषयसप्तमीमभ्युपेत्य सिद्धान्ती परिहरति -

नन्वकर्मैवेति ।

लोकस्य मूढदृष्टेर्विवेकवर्जितस्य परमार्थतो ब्रह्म अकर्म अक्रियमेव सद् , भ्रान्त्या, कर्मसहितं क्रियावदिव प्रतिभातीत्यक्षरार्थः ।

परस्पराध्यसमभ्युपेत्योक्तम् -

तथेति ।

यथा खल्वकर्म ब्रह्म कर्मवदुपलभ्यते तथा कर्म सक्रियमेव द्वैतमक्रिये ब्रह्मण्यधिष्ठाने संसृष्टं तद्वद् भातीत्यक्षरयोजना ।

कर्माकर्मणोरितरेतराध्यासे सिद्धे, सम्यग्दर्शनसिद्ध्यर्थं भगवतो वचनमुचितम् , इत्याह -

तत्रेति ।

यथा, यत् , इन्दं रजतमिति प्रतिपन्नं, तत् , इदानीं शुक्तिशकलं पश्येति भ्रमसिद्धरजतरूपविषयानुवादेन तदधिष्ठानं शुक्तिमात्रमुपदिश्यते, तथा भ्रमसिद्धकर्माद्यात्मकविषयानुवादेन तदधिष्ठानं कर्मादिरहितं कूटस्थं ब्रह्म भगवता व्यपदिश्यते । तथाच भगवद्वचनमविरुद्धमित्यह -

अत इति ।

इतश्चाध्यारोपितकर्माद्यनुवादपूर्वकं तदधिष्ठानस्य कर्मादिरहितस्य निर्विशोषस्य ब्रह्मणो भगवता बोध्यमानत्वान्न तत्र विरोधाशङ्कावकाशो भवतीत्याह -

बुद्धिमत्त्वादीति ।

कूटस्थाद् ब्रह्मणोऽन्यस्य सर्वस्य मायामात्रत्वात् अन्यज्ञानाद् बुद्धिमत्त्वयुक्तत्वसर्वकर्मकृत्त्वानामनुपपत्तेः, अत्र च ‘स बुद्धिमान् ‘ इत्यादिना बुद्धिमत्त्वादिनिर्देशाद् ब्रह्मज्ञानादेव तदुपपत्तेः, सर्वविक्रियारहितब्रह्मज्ञानमेव विवक्षितमित्यर्थः ।

बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् कर्माकर्मविकर्मणां स्वरूपं बोद्धव्यस्तीति वदता सम्यग्ज्ञानोपदेशस्य विवक्षितत्वादपि कूटस्थं ब्रह्मत्राभिप्रेतम् इत्याह -

बोद्धव्यमिति चेति ।

फलवचनपर्यालोचनायामपि कूटस्थं ब्रह्मात्राभिप्रेतं प्रतिभाति इत्याह -

नचेति ।

सम्यग्ज्ञानाधीनफलमत्र न श्रुतम् , इत्याशङ्क्याह -

यज्ज्ञात्वेति ।

अध्यारोपापवादार्थं भागवद्वचनमविरुद्धम् , इत्युपपादितमुपसंहरति -

तस्मादिति ।

‘तद्विपर्यय’ इत्यत्र तच्छब्देन प्राणिनो गृह्यन्ते ।

विषयमप्तमीपरिग्रहेण परिहारमभिवाय, अधिकरणसप्तमीपक्षे दर्शित्ं दूषणमनङ्गीकारेण परिहरति -

नचेति ।

व्यवहारभूमिरत्रेत्युच्यते । योग्यत्वे सत्यनुपलब्धेरित्यर्थः ।

अकर्माधिकरणं कर्म न सम्भवति इत्यत्र हेत्वन्तरमाह -

कर्माभावत्वादिति ।

नहि तुच्छस्याधिकरणं क्कचिद् दृष्टमिष्टं चेत्यर्थः ।

निरूप्यमाणे कर्माकर्मणोरधिकरणाधिकर्तव्यभावासम्भवे फलितमाह -

अत इति ।

शास्त्रपरिचयविरहिणामध्यारोपमुदाहरति -

यथेति ।

कर्माकर्मणोरारोपितत्वमुक्तममृष्यमाणाः सन्नाशङ्कते -

नन्विति ।

कर्म कर्मैवेत्यत्र अकर्म चाकर्मैवेति द्रष्टव्यम् । विमतं सत्यमव्यभिचारित्वाद् ब्रह्मवदित्यर्थः ।

तत्र कर्म तत्त्वतो नाव्यभिचारि, कर्मत्वात् , नौस्थस्य तटस्थवृक्षगमनवत् ,इत्यव्यभिचारित्वं कर्मण्यसिद्धमिति परिहरति -

तन्नेति ।

अकर्म च तत्त्वतो नाव्यभिचारि, कर्माभावत्वाद्, दूरप्रदेशे चैत्रमैत्रादिषु गच्छत्स्वेव चक्षुषा सन्निधानविधुरेषु दृश्यमानगत्यभाववत् , इत्याह -

दूरेष्विति ।

दूरत्वादेव विशेषतः सन्निकर्षविरहितेषु तेषु स्वरूपेण चक्षुः संनिकृष्टेषु चक्षुषा गत्यभावदर्शनादिति योजना ।

गातिरहितेषु तरुषु गतिदर्शनवत् प्रकृते ब्रह्मण्यविक्रिये कर्मदर्शनं, सक्रिये च द्वैतप्रपञ्चे गतिमत्सु चैत्रादिषु गत्यभावदर्शनवत् कर्माभावस्य विपरीतस्य दर्शनं येन हेतुना सम्भवति, तेन तस्य विपरीतदर्शनस्य निरसनार्थं भगवद्वचनमिति दार्ष्टान्तिकं निगमयति -

एवमित्यादिना ।