श्लोकस्य शब्दोत्थेऽर्थे दर्शिते, तात्पर्यार्थापरिज्ञानान्मिथो विरोधं शङ्क्तते -
नन्विति ।
कथमिदं विरुद्धम् ? इत्याशङ्क्य, कर्मणीति विषयसप्तमी वा स्यात् ? अधिकरणसप्तमी वा ? इति विकल्प्य, आद्ये - अन्याकारं ज्ञानमन्यावलम्बनमिति स्पष्टो विरोधः स्याद् , इत्याह -
नहीति ।
अन्यस्यान्यात्मतायोगात् कर्माकर्मणोरभेदासम्भवादकर्माकारं कर्मावलम्बनं ज्ञानम् अयुक्तमित्यर्थः ।
द्वितीयं दूषयति -
तत्रेति ।
कर्मण्यधिकरणे ततो विरुद्धमकर्म कथमाधेयं द्रष्टा द्रष्टुमीष्टे । नहि कर्माकर्मणोर्मिथो विरुद्धयोराधाराधेयभावः सम्भवतीत्यर्थः ।
विषयसप्तमीमभ्युपेत्य सिद्धान्ती परिहरति -
नन्वकर्मैवेति ।
लोकस्य मूढदृष्टेर्विवेकवर्जितस्य परमार्थतो ब्रह्म अकर्म अक्रियमेव सद् , भ्रान्त्या, कर्मसहितं क्रियावदिव प्रतिभातीत्यक्षरार्थः ।
परस्पराध्यसमभ्युपेत्योक्तम् -
तथेति ।
यथा खल्वकर्म ब्रह्म कर्मवदुपलभ्यते तथा कर्म सक्रियमेव द्वैतमक्रिये ब्रह्मण्यधिष्ठाने संसृष्टं तद्वद् भातीत्यक्षरयोजना ।
कर्माकर्मणोरितरेतराध्यासे सिद्धे, सम्यग्दर्शनसिद्ध्यर्थं भगवतो वचनमुचितम् , इत्याह -
तत्रेति ।
यथा, यत् , इन्दं रजतमिति प्रतिपन्नं, तत् , इदानीं शुक्तिशकलं पश्येति भ्रमसिद्धरजतरूपविषयानुवादेन तदधिष्ठानं शुक्तिमात्रमुपदिश्यते, तथा भ्रमसिद्धकर्माद्यात्मकविषयानुवादेन तदधिष्ठानं कर्मादिरहितं कूटस्थं ब्रह्म भगवता व्यपदिश्यते । तथाच भगवद्वचनमविरुद्धमित्यह -
अत इति ।
इतश्चाध्यारोपितकर्माद्यनुवादपूर्वकं तदधिष्ठानस्य कर्मादिरहितस्य निर्विशोषस्य ब्रह्मणो भगवता बोध्यमानत्वान्न तत्र विरोधाशङ्कावकाशो भवतीत्याह -
बुद्धिमत्त्वादीति ।
कूटस्थाद् ब्रह्मणोऽन्यस्य सर्वस्य मायामात्रत्वात् अन्यज्ञानाद् बुद्धिमत्त्वयुक्तत्वसर्वकर्मकृत्त्वानामनुपपत्तेः, अत्र च ‘स बुद्धिमान् ‘ इत्यादिना बुद्धिमत्त्वादिनिर्देशाद् ब्रह्मज्ञानादेव तदुपपत्तेः, सर्वविक्रियारहितब्रह्मज्ञानमेव विवक्षितमित्यर्थः ।
बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् कर्माकर्मविकर्मणां स्वरूपं बोद्धव्यस्तीति वदता सम्यग्ज्ञानोपदेशस्य विवक्षितत्वादपि कूटस्थं ब्रह्मत्राभिप्रेतम् इत्याह -
बोद्धव्यमिति चेति ।
फलवचनपर्यालोचनायामपि कूटस्थं ब्रह्मात्राभिप्रेतं प्रतिभाति इत्याह -
नचेति ।
सम्यग्ज्ञानाधीनफलमत्र न श्रुतम् , इत्याशङ्क्याह -
यज्ज्ञात्वेति ।
अध्यारोपापवादार्थं भागवद्वचनमविरुद्धम् , इत्युपपादितमुपसंहरति -
तस्मादिति ।
‘तद्विपर्यय’ इत्यत्र तच्छब्देन प्राणिनो गृह्यन्ते ।
विषयमप्तमीपरिग्रहेण परिहारमभिवाय, अधिकरणसप्तमीपक्षे दर्शित्ं दूषणमनङ्गीकारेण परिहरति -
नचेति ।
व्यवहारभूमिरत्रेत्युच्यते । योग्यत्वे सत्यनुपलब्धेरित्यर्थः ।
अकर्माधिकरणं कर्म न सम्भवति इत्यत्र हेत्वन्तरमाह -
कर्माभावत्वादिति ।
नहि तुच्छस्याधिकरणं क्कचिद् दृष्टमिष्टं चेत्यर्थः ।
निरूप्यमाणे कर्माकर्मणोरधिकरणाधिकर्तव्यभावासम्भवे फलितमाह -
अत इति ।
शास्त्रपरिचयविरहिणामध्यारोपमुदाहरति -
यथेति ।
कर्माकर्मणोरारोपितत्वमुक्तममृष्यमाणाः सन्नाशङ्कते -
नन्विति ।
कर्म कर्मैवेत्यत्र अकर्म चाकर्मैवेति द्रष्टव्यम् । विमतं सत्यमव्यभिचारित्वाद् ब्रह्मवदित्यर्थः ।
तत्र कर्म तत्त्वतो नाव्यभिचारि, कर्मत्वात् , नौस्थस्य तटस्थवृक्षगमनवत् ,इत्यव्यभिचारित्वं कर्मण्यसिद्धमिति परिहरति -
तन्नेति ।
अकर्म च तत्त्वतो नाव्यभिचारि, कर्माभावत्वाद्, दूरप्रदेशे चैत्रमैत्रादिषु गच्छत्स्वेव चक्षुषा सन्निधानविधुरेषु दृश्यमानगत्यभाववत् , इत्याह -
दूरेष्विति ।
दूरत्वादेव विशेषतः सन्निकर्षविरहितेषु तेषु स्वरूपेण चक्षुः संनिकृष्टेषु चक्षुषा गत्यभावदर्शनादिति योजना ।
गातिरहितेषु तरुषु गतिदर्शनवत् प्रकृते ब्रह्मण्यविक्रिये कर्मदर्शनं, सक्रिये च द्वैतप्रपञ्चे गतिमत्सु चैत्रादिषु गत्यभावदर्शनवत् कर्माभावस्य विपरीतस्य दर्शनं येन हेतुना सम्भवति, तेन तस्य विपरीतदर्शनस्य निरसनार्थं भगवद्वचनमिति दार्ष्टान्तिकं निगमयति -
एवमित्यादिना ।