श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येदकर्मणि कर्म यः
बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
ननु किमिदं विरुद्धमुच्यते ‘कर्मणि अकर्म यः पश्येत्’ इति ‘अकर्मणि च कर्म’ इति ; न हि कर्म अकर्म स्यात् , अकर्म वा कर्म । तत्र विरुद्धं कथं पश्येत् द्रष्टा ? — न, अकर्म एव परमार्थतः सत् कर्मवत् अवभासते मूढदृष्टेः लोकस्य, तथा कर्मैव अकर्मवत् । तत्र यथाभूतदर्शनार्थमाह भगवान् — ‘कर्मण्यकर्म यः पश्येत्’ इत्यादि । अतो न विरुद्धम् । बुद्धिमत्त्वाद्युपपत्तेश्च । ‘बोद्धव्यम्’ (भ. गी. ४ । १७) इति च यथाभूतदर्शनमुच्यते । न च विपरीतज्ञानात् अशुभात् मोक्षणं स्यात् ; ‘यत् ज्ञात्वा मोक्ष्यसेऽशुभात्’ (भ. गी. ४ । १६) इति च उक्तम् । तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः तद्विपर्ययग्रहणनिवृत्त्यर्थं भगवतो वचनम् ‘कर्मण्यकर्म यः’ इत्यादि । न च अत्र कर्माधिकरणमकर्म अस्ति, कुण्डे बदराणीव । नापि अकर्माधिकरणं कर्मास्ति, कर्माभावत्वादकर्मणः । अतः विपरीतगृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायामुदकं शुक्तिकायां वा रजतम् । ननु कर्म कर्मैव सर्वेषां न क्वचित् व्यभिचरति — तत् न, नौस्थस्य नावि गच्छन्त्यां तटस्थेषु अगतिषु नगेषु प्रतिकूलगतिदर्शनात् , दूरेषु चक्षुषा असंनिकृष्टेषु गच्छत्सु गत्यभावदर्शनात् , एवम् इहापि अकर्मणि कर्मदर्शनं कर्मणि च अकर्मदर्शनं विपरीतदर्शनं येन तन्निराकरणार्थमुच्यते ‘कर्मण्यकर्म यः पश्येत्’ इत्यादि ॥

श्लोकस्य शब्दोत्थेऽर्थे दर्शिते, तात्पर्यार्थापरिज्ञानान्मिथो विरोधं शङ्क्तते -

नन्विति ।

कथमिदं विरुद्धम् ? इत्याशङ्क्य, कर्मणीति विषयसप्तमी वा स्यात् ? अधिकरणसप्तमी वा ? इति विकल्प्य, आद्ये - अन्याकारं ज्ञानमन्यावलम्बनमिति स्पष्टो विरोधः स्याद् , इत्याह -

नहीति ।

अन्यस्यान्यात्मतायोगात् कर्माकर्मणोरभेदासम्भवादकर्माकारं कर्मावलम्बनं ज्ञानम् अयुक्तमित्यर्थः ।

द्वितीयं दूषयति -

तत्रेति ।

कर्मण्यधिकरणे ततो विरुद्धमकर्म कथमाधेयं द्रष्टा द्रष्टुमीष्टे । नहि कर्माकर्मणोर्मिथो विरुद्धयोराधाराधेयभावः सम्भवतीत्यर्थः ।

विषयसप्तमीमभ्युपेत्य सिद्धान्ती परिहरति -

नन्वकर्मैवेति ।

लोकस्य मूढदृष्टेर्विवेकवर्जितस्य परमार्थतो ब्रह्म अकर्म अक्रियमेव सद् , भ्रान्त्या, कर्मसहितं क्रियावदिव प्रतिभातीत्यक्षरार्थः ।

परस्पराध्यसमभ्युपेत्योक्तम् -

तथेति ।

यथा खल्वकर्म ब्रह्म कर्मवदुपलभ्यते तथा कर्म सक्रियमेव द्वैतमक्रिये ब्रह्मण्यधिष्ठाने संसृष्टं तद्वद् भातीत्यक्षरयोजना ।

कर्माकर्मणोरितरेतराध्यासे सिद्धे, सम्यग्दर्शनसिद्ध्यर्थं भगवतो वचनमुचितम् , इत्याह -

तत्रेति ।

यथा, यत् , इन्दं रजतमिति प्रतिपन्नं, तत् , इदानीं शुक्तिशकलं पश्येति भ्रमसिद्धरजतरूपविषयानुवादेन तदधिष्ठानं शुक्तिमात्रमुपदिश्यते, तथा भ्रमसिद्धकर्माद्यात्मकविषयानुवादेन तदधिष्ठानं कर्मादिरहितं कूटस्थं ब्रह्म भगवता व्यपदिश्यते । तथाच भगवद्वचनमविरुद्धमित्यह -

अत इति ।

इतश्चाध्यारोपितकर्माद्यनुवादपूर्वकं तदधिष्ठानस्य कर्मादिरहितस्य निर्विशोषस्य ब्रह्मणो भगवता बोध्यमानत्वान्न तत्र विरोधाशङ्कावकाशो भवतीत्याह -

बुद्धिमत्त्वादीति ।

कूटस्थाद् ब्रह्मणोऽन्यस्य सर्वस्य मायामात्रत्वात् अन्यज्ञानाद् बुद्धिमत्त्वयुक्तत्वसर्वकर्मकृत्त्वानामनुपपत्तेः, अत्र च ‘स बुद्धिमान् ‘ इत्यादिना बुद्धिमत्त्वादिनिर्देशाद् ब्रह्मज्ञानादेव तदुपपत्तेः, सर्वविक्रियारहितब्रह्मज्ञानमेव विवक्षितमित्यर्थः ।

बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् कर्माकर्मविकर्मणां स्वरूपं बोद्धव्यस्तीति वदता सम्यग्ज्ञानोपदेशस्य विवक्षितत्वादपि कूटस्थं ब्रह्मत्राभिप्रेतम् इत्याह -

बोद्धव्यमिति चेति ।

फलवचनपर्यालोचनायामपि कूटस्थं ब्रह्मात्राभिप्रेतं प्रतिभाति इत्याह -

नचेति ।

सम्यग्ज्ञानाधीनफलमत्र न श्रुतम् , इत्याशङ्क्याह -

यज्ज्ञात्वेति ।

अध्यारोपापवादार्थं भागवद्वचनमविरुद्धम् , इत्युपपादितमुपसंहरति -

तस्मादिति ।

‘तद्विपर्यय’ इत्यत्र तच्छब्देन प्राणिनो गृह्यन्ते ।

विषयमप्तमीपरिग्रहेण परिहारमभिवाय, अधिकरणसप्तमीपक्षे दर्शित्ं दूषणमनङ्गीकारेण परिहरति -

नचेति ।

व्यवहारभूमिरत्रेत्युच्यते । योग्यत्वे सत्यनुपलब्धेरित्यर्थः ।

अकर्माधिकरणं कर्म न सम्भवति इत्यत्र हेत्वन्तरमाह -

कर्माभावत्वादिति ।

नहि तुच्छस्याधिकरणं क्कचिद् दृष्टमिष्टं चेत्यर्थः ।

निरूप्यमाणे कर्माकर्मणोरधिकरणाधिकर्तव्यभावासम्भवे फलितमाह -

अत इति ।

शास्त्रपरिचयविरहिणामध्यारोपमुदाहरति -

यथेति ।

कर्माकर्मणोरारोपितत्वमुक्तममृष्यमाणाः सन्नाशङ्कते -

नन्विति ।

कर्म कर्मैवेत्यत्र अकर्म चाकर्मैवेति द्रष्टव्यम् । विमतं सत्यमव्यभिचारित्वाद् ब्रह्मवदित्यर्थः ।

तत्र कर्म तत्त्वतो नाव्यभिचारि, कर्मत्वात् , नौस्थस्य तटस्थवृक्षगमनवत् ,इत्यव्यभिचारित्वं कर्मण्यसिद्धमिति परिहरति -

तन्नेति ।

अकर्म च तत्त्वतो नाव्यभिचारि, कर्माभावत्वाद्, दूरप्रदेशे चैत्रमैत्रादिषु गच्छत्स्वेव चक्षुषा सन्निधानविधुरेषु दृश्यमानगत्यभाववत् , इत्याह -

दूरेष्विति ।

दूरत्वादेव विशेषतः सन्निकर्षविरहितेषु तेषु स्वरूपेण चक्षुः संनिकृष्टेषु चक्षुषा गत्यभावदर्शनादिति योजना ।

गातिरहितेषु तरुषु गतिदर्शनवत् प्रकृते ब्रह्मण्यविक्रिये कर्मदर्शनं, सक्रिये च द्वैतप्रपञ्चे गतिमत्सु चैत्रादिषु गत्यभावदर्शनवत् कर्माभावस्य विपरीतस्य दर्शनं येन हेतुना सम्भवति, तेन तस्य विपरीतदर्शनस्य निरसनार्थं भगवद्वचनमिति दार्ष्टान्तिकं निगमयति -

एवमित्यादिना ।