श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येदकर्मणि कर्म यः
बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
तदेतत् उक्तप्रतिवचनमपि असकृत् अत्यन्तविपरीतदर्शनभाविततया मोमुह्यमानो लोकः श्रुतमपि असकृत् तत्त्वं विस्मृत्य विस्मृत्य मिथ्याप्रसङ्गम् अवतार्यावतार्य चोदयति इति पुनः पुनः उत्तरमाह भगवान् , दुर्विज्ञेयत्वं आलक्ष्य वस्तुनःअव्यक्तोऽयमचिन्त्योऽयम्’ (भ. गी. २ । २५) जायते म्रियते’ (भ. गी. २ । २०) इत्यादिना आत्मनि कर्माभावः श्रुतिस्मृतिन्यायप्रसिद्धः उक्तः वक्ष्यमाणश्चतस्मिन् आत्मनि कर्माभावे अकर्मणि कर्मविपरीतदर्शनम् अत्यन्तनिरूढम् ; यतः, किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः’ (भ. गी. ४ । १६)देहाद्याश्रयं कर्म आत्मन्यध्यारोप्यअहं कर्ता, मम एतत् कर्म, मया अस्य कर्मणः फलं भोक्तव्यम्इति , तथाअहं तूष्णीं भवामि, येन अहं निरायासः अकर्मा सुखी स्याम्इति कार्यकरणाश्रयं व्यापारोपरमं तत्कृतं सुखित्वम् आत्मनि अध्यारोप्य करोमि किञ्चित् , तूष्णीं सुखमासेइति अभिमन्यते लोकःतत्रेदं लोकस्य विपररीतदर्शनापनयाय आह भगवान् — ‘कर्मण्यकर्म यः पश्येत्इत्यादि

ननु कर्मतदभावयोरारोपितत्वात् अविक्रियस्य ब्रह्मणो ज्ञानमत्राभिप्रेतं चेत् ‘अव्यक्तोऽयमचिन्त्योऽयं’(भ. गी. २-२५) ‘न जायते म्रियते’ (भ. गी. २ -१८) इत्यादिना पौनरुक्त्यं प्राप्तं, तत्रैव ब्रह्मात्मनो निर्विकारत्वस्योक्तत्वादिति, तत्राह -

तदेतदिति ।

तदेतत् -आत्मनि शङ्कितं सक्रियत्वम् असकृदुक्तप्रतिवचनमपि निर्विकारात्मवस्त्वपेक्षया अत्यन्तविपरीतदर्शनं - मिथ्याज्ञानं, तेन भावितत्वं -तत्संस्कारप्रचयवत्त्वं, ततोऽतिशयेन मोहमापद्यमानो लोकः श्रुतमपि तत्त्वं विस्मृत्य पुनर्यत्किंचित्प्रसङ्गमापाद्य, सक्रियत्वमेव आत्मन श्चोदयतीति, पुनः पुनस्तत्त्वभूतमुत्तरं भगवानभिधत्ते । वस्तुनश्च दुर्विज्ञेयत्वात् पुनःपुनः प्रतिपादनं तत्तद्भ्रमनिराकरणार्थमुपयुज्यते । तथाच नास्ति पुनरुक्तिरित्यर्थः ।

असकृदुक्तप्रतिवचनमेवानुवदति -

अव्यक्तोऽयमिति ।

कर्माभाव उक्त इति सम्बन्धः ।

उक्तस्य ‘न जायते म्रियते वा विपश्चित् ‘ (क. १.२. १८) इत्यादिश्रुतौ प्रकृतस्मृतावसङ्गत्वादिन्यायेन च प्रसिद्धत्वमस्ति, इत्याह -

श्रुतीति ।

न केवलमुक्तः कर्माभावः, किन्तु, ‘सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५-१३) इत्यादौ वक्ष्यमाणश्चेत्याह -

वक्ष्यमाणश्चेति ।

ननु कर्मणो देहादिनिर्वर्त्यत्वेन त्रैविध्यात् कूटस्थस्वभावस्यात्मनोऽसङ्गत्वात् तद्व्यापाररूपस्य कर्मणोऽप्रसिद्धत्वान्न तस्मिन्नकर्मणि विपरीतस्य कर्मणो दर्शनं सिध्यति, इत्याशङ्क्याह -

तस्मिन्निति ।

कर्मैव विपरीतं, तस्य दर्शनमिति यावत् । अहं कर्तेत्यात्मसमानाधिकरणस्य व्यापारस्यानुभवात् कर्मभ्रमस्तावत् आत्मन्यत्यन्तरूढोऽस्तीत्यर्थः ।

आत्मनि कर्मविभ्रमोऽस्तीत्यत्र हेतुमाह -

यत इति ।

आत्मनो निष्क्रियत्वे कुतस्तस्मिन् यथोक्तो विभ्रमः सम्भवेत ? इत्याशङ्क्याह -

देहेति ।

इदानीमात्मनि अकर्मभ्रममुदाहरति -

तथेत्यादिना ।

यथा शुक्तौ स्वाभाविकमरूप्यत्वं, रूप्यत्वमारोपितं, तदभावोऽप्यारोप्याभावत्वात् आरोपपक्षपाती । तथा आत्मनोऽपि स्वाभाविकमविक्रियत्वं, सक्रियत्वं पुनरध्यस्तं, तदभावत्वात् , कर्मभावोऽप्यध्यस्त एवेति मन्वानः सन्नुपसंहरति -

तत्रेदमिति ।

आत्मनि कर्मादिविभ्रमे लौकिके सिद्धे सति इदं - ‘कर्माणि’ इत्यादिवचनंं, तत्परिहारार्थं भगवानुक्तवानित्यर्थः ।