संप्रत्युक्तेऽर्थे श्लोकाक्षरसमन्वयं दर्शयितुं ‘कर्मणि’ इत्यादि व्याचिख्यासुर्भूमिकां करोति -
अत्र चेति ।
व्यवहारभूमौ कार्यकरणाधिकरणं कर्म स्वेनैव रूपेण व्यवस्थितं सत् , आत्मन्यविक्रिये कार्यकरणारोपणद्वारेण सर्वैरारोपितमित्यत्र हेतुमाह -
यत इति ।
अविवेकिनां तु कर्तुत्वाभिमानः सुतरामिति वक्तुमपिशब्दः । एवमात्मनि कर्मारोपमुपपाद्य प्रथमपादं व्याटष्टे -
अत इति ।
आत्मानि कर्मरहिते कर्मारोपे दृष्टान्तमाह -
नदीति ।
आरोपवशादात्मनिष्ठत्वेन कर्मणि सर्वलोकप्रसिद्धे कर्माभावं यः पश्येत् , स बुद्धिमानिति सम्बन्धः । अकर्मदर्शनस्य यथाभूतत्वं सम्यक्त्वम् । तत्र दृष्टान्तमाह -
गत्यभावमिवेति ।
द्वितीयपादं व्याकरोति -
अकर्मणि चेति ।
अध्यरोपमभिनयति -
तूष्णीमिति ।
अकर्मणि कर्मदर्शने युक्तिमाह -
अहङ्कारेति ।
पूर्वार्धेनोक्तमनूद्य, उत्तरार्धं विभजते -
य एवमिति ।