श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येदकर्मणि कर्म यः
बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
अत्र कर्म कर्मैव सत् कार्यकरणाश्रयं कर्मरहिते अविक्रिये आत्मनि सर्वैः अध्यस्तम् , यतः पण्डितोऽपिअहं करोमिइति मन्यतेअतः आत्मसमवेततया सर्वलोकप्रसिद्धे कर्मणि नदीकूलस्थेष्विव वृक्षेषु गतिप्रातिलोम्येन अकर्म कर्माभावं यथाभूतं गत्यभावमिव वृक्षेषु यः पश्येत् , अकर्मणि कार्यकरणव्यापारोपरमे कर्मवत् आत्मनि अध्यारोपिते, ‘तूष्णीं अकुर्वन् सुखं आसेइत्यहङ्काराभिसन्धिहेतुत्वात् , तस्मिन् अकर्मणि कर्म यः पश्येत् , यः एवं कर्माकर्मविभागज्ञः सः बुद्धिमान् पण्डितः मनुष्येषु, सः युक्तः योगी कृत्स्नकर्मकृच्च सः अशुभात् मोक्षितः कृतकृत्यो भवति इत्यर्थः

संप्रत्युक्तेऽर्थे श्लोकाक्षरसमन्वयं दर्शयितुं ‘कर्मणि’ इत्यादि व्याचिख्यासुर्भूमिकां करोति -

अत्र चेति ।

व्यवहारभूमौ कार्यकरणाधिकरणं कर्म स्वेनैव रूपेण व्यवस्थितं सत् , आत्मन्यविक्रिये कार्यकरणारोपणद्वारेण सर्वैरारोपितमित्यत्र हेतुमाह -

यत इति ।

अविवेकिनां तु कर्तुत्वाभिमानः सुतरामिति वक्तुमपिशब्दः । एवमात्मनि कर्मारोपमुपपाद्य प्रथमपादं व्याटष्टे -

अत इति ।

आत्मानि कर्मरहिते कर्मारोपे दृष्टान्तमाह -

नदीति ।

आरोपवशादात्मनिष्ठत्वेन कर्मणि सर्वलोकप्रसिद्धे कर्माभावं यः पश्येत् , स बुद्धिमानिति सम्बन्धः । अकर्मदर्शनस्य यथाभूतत्वं सम्यक्त्वम् । तत्र दृष्टान्तमाह -

गत्यभावमिवेति ।

द्वितीयपादं व्याकरोति -

अकर्मणि चेति ।

अध्यरोपमभिनयति -

तूष्णीमिति ।

अकर्मणि कर्मदर्शने युक्तिमाह -

अहङ्कारेति ।

पूर्वार्धेनोक्तमनूद्य, उत्तरार्धं विभजते -

य एवमिति ।