आत्मनि कार्यकरणसङ्घातसमारोपद्वारेण तद्व्यापारमात्रे कर्मणि, शुक्तिकायामिव रजतसमारोपितविषये तदभावम् - अकर्म, वस्तुतो यो रजताभाववदनुभवति, अकर्मणि च सङ्घातव्यापारोपरमे तद्द्वारा स्वात्मनि ‘अहं तूष्णीमासे सुखम्’ इत्यारोपित गोचरे कर्म - अहङ्कारहेतुकं यस्तत्त्वतो मन्यते, स रूप्यतदभावविभागहीनशुक्तिमात्रवत् आत्ममात्रं कर्मतदभावविभागशून्यं कूटस्थं परमार्थतोऽवगच्छन् बुद्धिमान् इत्यादिस्तुतियोग्यतां गच्छति, इत्येवं स्वाभिप्रायेण श्लोकं व्याख्याय, अत्र वृत्तिकारव्याख्यानमुत्थापयति -
अयमिति ।
अन्यथाव्याख्यानमेव प्रश्नद्वारा प्रकटयति -
कथमित्यादिना ।
ईश्वरार्थेनानुष्ठाने फलाभववचनं व्याहतम् , इति मत्वाऽऽह -
किलेति ।
नित्यानामकर्मत्वमप्रसिद्धम् इ्त्याशङ्क्य, फलराहित्यगुणयोगात् तेष्वकर्मत्वव्यवहारः सिध्यतीत्याह -
गौण्येति ।
नित्यानामकारणं मुख्यवृत्त्यैवाकर्म वाच्यम् , इत्याह -
तेषां चेति ।
तत्र कर्मशब्दस्य प्रत्यवायाख्यफलहेतुत्वगुणयोगाद् गौण्यैव वृत्त्या प्रवृत्तिरित्याह -
तच्चेति ।
पातनिकामेवं कृत्वा श्लोकाक्षराणि व्याचष्टे -
तत्रेत्यादिना
अकर्मणि चेत्यादि व्याकरोति -
तथेति ।
स बुद्धिमानित्यादि पूर्ववत् ।