श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येदकर्मणि कर्म यः
बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
अयं श्लोकः अन्यथा व्याख्यातः कैश्चित्कथम् ? नित्यानां किल कर्मणाम् ईश्वरार्थे अनुष्ठीयमानानां तत्फलाभावात् अकर्माणि तानि उच्यन्ते गौण्या वृत्त्यातेषां अकरणम् अकर्म ; तच्च प्रत्यवायफलत्वात् कर्म उच्यते गौण्यैव वृत्त्यातत्र नित्ये कर्मणि अकर्म यः पश्येत् फलाभावात् ; यथा धेनुरपि गौः अगौः इत्युच्यते क्षीराख्यं फलं प्रयच्छति इति, तद्वत्तथा नित्याकरणे तु अकर्मणि कर्म यः पश्येत् नरकादिप्रत्यवायफलं प्रयच्छति इति

आत्मनि कार्यकरणसङ्घातसमारोपद्वारेण तद्व्यापारमात्रे कर्मणि, शुक्तिकायामिव रजतसमारोपितविषये तदभावम् - अकर्म, वस्तुतो यो रजताभाववदनुभवति, अकर्मणि च सङ्घातव्यापारोपरमे तद्द्वारा स्वात्मनि ‘अहं तूष्णीमासे सुखम्’ इत्यारोपित गोचरे कर्म - अहङ्कारहेतुकं यस्तत्त्वतो मन्यते, स रूप्यतदभावविभागहीनशुक्तिमात्रवत् आत्ममात्रं कर्मतदभावविभागशून्यं कूटस्थं परमार्थतोऽवगच्छन् बुद्धिमान् इत्यादिस्तुतियोग्यतां गच्छति, इत्येवं स्वाभिप्रायेण श्लोकं व्याख्याय, अत्र वृत्तिकारव्याख्यानमुत्थापयति -

अयमिति ।

अन्यथाव्याख्यानमेव प्रश्नद्वारा प्रकटयति -

कथमित्यादिना ।

ईश्वरार्थेनानुष्ठाने फलाभववचनं व्याहतम् , इति मत्वाऽऽह -

किलेति ।

नित्यानामकर्मत्वमप्रसिद्धम् इ्त्याशङ्क्य, फलराहित्यगुणयोगात् तेष्वकर्मत्वव्यवहारः सिध्यतीत्याह -

गौण्येति ।

नित्यानामकारणं मुख्यवृत्त्यैवाकर्म वाच्यम् , इत्याह -

तेषां चेति ।

तत्र कर्मशब्दस्य प्रत्यवायाख्यफलहेतुत्वगुणयोगाद् गौण्यैव वृत्त्या प्रवृत्तिरित्याह -

तच्चेति ।

पातनिकामेवं कृत्वा श्लोकाक्षराणि व्याचष्टे -

तत्रेत्यादिना

अकर्मणि चेत्यादि व्याकरोति -

तथेति ।

स बुद्धिमानित्यादि पूर्ववत् ।