श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येदकर्मणि कर्म यः
बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
नैतत् युक्तं व्याख्यानम्एवं ज्ञानात् अशुभात् मोक्षानुपपत्तेः यज्ज्ञात्वा मोक्ष्यसेऽशुभात्’ (भ. गी. ४ । १६) इति भगवता उक्तं वचनं बाध्येतकथम् ? नित्यानामनुष्ठानात् अशुभात् स्यात् नाम मोक्षणम् , तु तेषां फलाभावज्ञानात् हि नित्यानां फलाभावज्ञानम् अशुभमुक्तिफलत्वेन चोदितम् , नित्यकर्मज्ञानं वा भगवतैवेहोक्तम्एतेन अकर्मणि कर्मदर्शनं प्रत्युक्तम् हि अकर्मणिकर्मइति दर्शनं कर्तव्यतया इह चोद्यते, नित्यस्य तु कर्तव्यतामात्रम् अकरणात् नित्यस्य प्रत्यवायो भवतिइति विज्ञानात् किञ्चित् फलं स्यात्नापि नित्याकरणं ज्ञेयत्वेन चोदितम्नापिकर्म अकर्मइति मिथ्यादर्शनात् अशुभात् मोक्षणं बुद्धिमत्त्वं युक्तता कृत्स्नकर्मकृत्त्वादि फलम् उपपद्यते, स्तुतिर्वामिथ्याज्ञानमेव हि साक्षात् अशुभरूपम्कुतः अन्यस्मादशुभात् मोक्षणम् ? हि तमः तमसो निवर्तकं भवति

परकीयं व्याख्यानं व्युदस्यति -

नैतदिति ।

नित्यं कर्माकर्म, नित्याकरणं कर्मेति ज्ञानाद् दुरितनिवृत्त्यनुपपत्तेर्भगवद्वचनं वृत्तिकारमते बाधितं स्यादित्यर्थः ।

‘धर्मेण पापमपनुदति’ (म. ना. उ. २-१) इति श्रूतेर्नित्यानुष्ठानाद् दुरितनिबर्हणप्रसिद्धेस्तदनुष्ठानस्य फलान्तराभावात् तदकर्मेति ज्ञात्वा अनुष्ठाने क्रियमाणे कथमशुभक्षयो नेति शङ्कते -

कथमिति ।

‘क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता’ (या. स्मृ. ३-३४) इति स्मरणात् कर्मणात्यन्तिकाशुभक्षयाभावेऽप्यङ्गीकृत्य परिहरति -

नित्यानामिति ।

नित्यानुष्ठानादशुभक्षयेऽपि नास्मिन् प्रकरणे तद्विवक्षितं ; ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‘ (भ. गी. ४-१६) इति ज्ञानादशुभक्षयस्य प्रतिज्ञातत्वात् , नच तज्ज्ञानं फलाभावविषयमेषितव्यमित्याह -

नत्विति ।

अशुभस्य फलाभावज्ञानकार्यत्वाभावान्न फलाभावज्ञानात् क्षयः सिध्यतीत्यर्थः । किञ्चातीन्द्रियोऽर्थः शास्त्रान्निश्चीयते ।

नच नित्यकर्मणां फलाभावज्ञानादशुभनिवृत्तिरित्यत्र शास्त्रमस्तीत्याह -

नहीति ।

नित्याकरणं कर्मेति ज्ञानमपि, नाशुभनिवृत्तिफलत्वेन चोदितमस्तीत्याह -

नित्यकर्मेति ।

भगवद्वचनमेवात्र प्रमाणमित्याशङ्क्याह -

नचेति ।

साधारणमेव ‘यज्ज्ञात्वा’ इत्यादि भगवतो वचनं, नतु नित्यानां फलाभावं ज्ञात्वेति विशेषविषयमित्यर्थः ।

अशुभमोक्षणासम्भवप्रदर्शनेन कर्मण्यकर्मदर्शननिराकरणन्यायेन अकर्मणि कर्मदर्शनं निराकरोति -

एतेनेति ।

नामादिषु फलाय ब्रह्मदृष्टिवत् अकर्मण्यपि फलार्थं कर्मदृष्टिविधानान्नाशुभमोक्षणानुपपत्तिरित्याशङ्क्य, आह -

नहीति ।

अत्र हि श्लोके नित्यस्य कर्तव्यतामात्रं परमते विवक्षितम् । अतश्चाकर्मणि कर्मदर्शनं विधीयते तत्त्फलायेति कल्पना परस्य सिद्धान्तविरुद्धेत्याह -

नित्यस्य त्विति ।

परमतेऽपि नित्यस्य कर्तव्यतामात्रमत्र श्लोके न विवक्षितं, किन्तु नित्यानुष्ठाने प्रवृत्तिसिद्ध्यर्थं नित्याकरणात् प्रत्यवायो भवतीति ज्ञानमपि कर्तव्यत्वेनात्र विवक्षितमेवेत्याशङ्य अह -

नचेति ।

न तावत् प्रवृत्तिरस्य विज्ञानस्य फल, नियोगादेव तदुपपत्तेः । नापि फलान्तरम् अनुपलम्भात् ; अतोऽफलत्वादकरणात् प्रत्यवायो भवतीति ज्ञानं नात्र कर्तव्यत्वेन विवक्षितमित्यर्थः ।

किञ्चाकरणे कर्मदृष्टिविधावकरणस्यालम्बनत्वेन प्रधानत्वात् ज्ञेयत्वं वक्तव्यं, तच्च तुच्छत्वादनुपपन्नमित्याह-

नापीति ।

अकरणस्यासतो नामादिवदाश्रयत्वेन दर्शनासम्भवेऽपि, सामानाधिकरण्येन इदं रजतमितिवद् दर्शनं भविष्यतीत्याशङ्क्याह -

नापि कर्मेति ।

आदिशब्देन सर्वोत्कर्षादि गृह्यते । फलवत्त्वं स्तुतिर्वा सम्यग्ज्ञानस्य युक्तं, न मिथ्याज्ञानस्य, अनुपपत्तेरित्यर्थः ।

स्वप्ने मिथ्याज्ञानमपि फलवदुपलब्धमित्याशङ्क्य, मिथ्याज्ञानस्याशुभाविरोधित्वान्न तस्मात् तन्निवृत्तिरित्याह -

मिथ्याज्ञानमेवेति ।

अशुभादेवाशुभानिवृत्तौ दृष्टान्तमाह -

नहीति ।