श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येदकर्मणि कर्म यः
बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
नैतत् युक्तं व्याख्यानम् । एवं ज्ञानात् अशुभात् मोक्षानुपपत्तेः ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभात्’ (भ. गी. ४ । १६) इति भगवता उक्तं वचनं बाध्येत । कथम् ? नित्यानामनुष्ठानात् अशुभात् स्यात् नाम मोक्षणम् , न तु तेषां फलाभावज्ञानात् । न हि नित्यानां फलाभावज्ञानम् अशुभमुक्तिफलत्वेन चोदितम् , नित्यकर्मज्ञानं वा । न च भगवतैवेहोक्तम् । एतेन अकर्मणि कर्मदर्शनं प्रत्युक्तम् । न हि अकर्मणि ‘कर्म’ इति दर्शनं कर्तव्यतया इह चोद्यते, नित्यस्य तु कर्तव्यतामात्रम् । न च ‘अकरणात् नित्यस्य प्रत्यवायो भवति’ इति विज्ञानात् किञ्चित् फलं स्यात् । नापि नित्याकरणं ज्ञेयत्वेन चोदितम् । नापि ‘कर्म अकर्म’ इति मिथ्यादर्शनात् अशुभात् मोक्षणं बुद्धिमत्त्वं युक्तता कृत्स्नकर्मकृत्त्वादि च फलम् उपपद्यते, स्तुतिर्वा । मिथ्याज्ञानमेव हि साक्षात् अशुभरूपम् । कुतः अन्यस्मादशुभात् मोक्षणम् ? न हि तमः तमसो निवर्तकं भवति ॥

परकीयं व्याख्यानं व्युदस्यति -

नैतदिति ।

नित्यं कर्माकर्म, नित्याकरणं कर्मेति ज्ञानाद् दुरितनिवृत्त्यनुपपत्तेर्भगवद्वचनं वृत्तिकारमते बाधितं स्यादित्यर्थः ।

‘धर्मेण पापमपनुदति’ (म. ना. उ. २-१) इति श्रूतेर्नित्यानुष्ठानाद् दुरितनिबर्हणप्रसिद्धेस्तदनुष्ठानस्य फलान्तराभावात् तदकर्मेति ज्ञात्वा अनुष्ठाने क्रियमाणे कथमशुभक्षयो नेति शङ्कते -

कथमिति ।

‘क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता’ (या. स्मृ. ३-३४) इति स्मरणात् कर्मणात्यन्तिकाशुभक्षयाभावेऽप्यङ्गीकृत्य परिहरति -

नित्यानामिति ।

नित्यानुष्ठानादशुभक्षयेऽपि नास्मिन् प्रकरणे तद्विवक्षितं ; ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‘ (भ. गी. ४-१६) इति ज्ञानादशुभक्षयस्य प्रतिज्ञातत्वात् , नच तज्ज्ञानं फलाभावविषयमेषितव्यमित्याह -

नत्विति ।

अशुभस्य फलाभावज्ञानकार्यत्वाभावान्न फलाभावज्ञानात् क्षयः सिध्यतीत्यर्थः । किञ्चातीन्द्रियोऽर्थः शास्त्रान्निश्चीयते ।

नच नित्यकर्मणां फलाभावज्ञानादशुभनिवृत्तिरित्यत्र शास्त्रमस्तीत्याह -

नहीति ।

नित्याकरणं कर्मेति ज्ञानमपि, नाशुभनिवृत्तिफलत्वेन चोदितमस्तीत्याह -

नित्यकर्मेति ।

भगवद्वचनमेवात्र प्रमाणमित्याशङ्क्याह -

नचेति ।

साधारणमेव ‘यज्ज्ञात्वा’ इत्यादि भगवतो वचनं, नतु नित्यानां फलाभावं ज्ञात्वेति विशेषविषयमित्यर्थः ।

अशुभमोक्षणासम्भवप्रदर्शनेन कर्मण्यकर्मदर्शननिराकरणन्यायेन अकर्मणि कर्मदर्शनं निराकरोति -

एतेनेति ।

नामादिषु फलाय ब्रह्मदृष्टिवत् अकर्मण्यपि फलार्थं कर्मदृष्टिविधानान्नाशुभमोक्षणानुपपत्तिरित्याशङ्क्य, आह -

नहीति ।

अत्र हि श्लोके नित्यस्य कर्तव्यतामात्रं परमते विवक्षितम् । अतश्चाकर्मणि कर्मदर्शनं विधीयते तत्त्फलायेति कल्पना परस्य सिद्धान्तविरुद्धेत्याह -

नित्यस्य त्विति ।

परमतेऽपि नित्यस्य कर्तव्यतामात्रमत्र श्लोके न विवक्षितं, किन्तु नित्यानुष्ठाने प्रवृत्तिसिद्ध्यर्थं नित्याकरणात् प्रत्यवायो भवतीति ज्ञानमपि कर्तव्यत्वेनात्र विवक्षितमेवेत्याशङ्य अह -

नचेति ।

न तावत् प्रवृत्तिरस्य विज्ञानस्य फल, नियोगादेव तदुपपत्तेः । नापि फलान्तरम् अनुपलम्भात् ; अतोऽफलत्वादकरणात् प्रत्यवायो भवतीति ज्ञानं नात्र कर्तव्यत्वेन विवक्षितमित्यर्थः ।

किञ्चाकरणे कर्मदृष्टिविधावकरणस्यालम्बनत्वेन प्रधानत्वात् ज्ञेयत्वं वक्तव्यं, तच्च तुच्छत्वादनुपपन्नमित्याह-

नापीति ।

अकरणस्यासतो नामादिवदाश्रयत्वेन दर्शनासम्भवेऽपि, सामानाधिकरण्येन इदं रजतमितिवद् दर्शनं भविष्यतीत्याशङ्क्याह -

नापि कर्मेति ।

आदिशब्देन सर्वोत्कर्षादि गृह्यते । फलवत्त्वं स्तुतिर्वा सम्यग्ज्ञानस्य युक्तं, न मिथ्याज्ञानस्य, अनुपपत्तेरित्यर्थः ।

स्वप्ने मिथ्याज्ञानमपि फलवदुपलब्धमित्याशङ्क्य, मिथ्याज्ञानस्याशुभाविरोधित्वान्न तस्मात् तन्निवृत्तिरित्याह -

मिथ्याज्ञानमेवेति ।

अशुभादेवाशुभानिवृत्तौ दृष्टान्तमाह -

नहीति ।