श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येदकर्मणि कर्म यः
बुद्धिमान्मनुष्येषु युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
ननु कर्मणि यत् अकर्मदर्शनम् अकर्मणि वा कर्मदर्शनं तत् मिथ्याज्ञानम् ; किं तर्हि ? गौणं फलभावाभावनिमित्तम्, कर्माकर्मविज्ञानादपि गौणात् फलस्य अश्रवणात्नापि श्रुतहान्यश्रुतपरिकल्पनायां कश्चित् विशेष उपलभ्यतेस्वशब्देनापि शक्यं वक्तुम्नित्यकर्मणां फलं नास्ति, अकरणाच्च तेषां नरकपातः स्यात्इति ; तत्र व्याजेन परव्यामोहरूपेणकर्मण्यकर्म यः पस्येत्इत्यादिना किम् ? तत्र एवं व्याचक्षाणेन भगवतोक्तं वाक्यं लोकव्यामोहार्थमिति व्यक्तं कल्पितं स्यात् एतत् छद्मरूपेण वाक्येन रक्षणीयं वस्तु ; नापि शब्दान्तरेण पुनः पुनः उच्यमानं सुबोधं स्यात् इत्येवं वक्तुं युक्तम्कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) इत्यत्र हि स्फुटतर उक्तः अर्थः, पुनर्वक्तव्यो भवतिसर्वत्र प्रशस्तं बोद्धव्यं कर्तव्यमेव निष्प्रयोजनं बोद्धव्यमित्युच्यते

अविवेकपूर्वकम् , इदं रजतमिति, सदसतोः सामानाधिकरण्यान्मिथ्याज्ञानं युक्तं, कर्माकर्मणोस्तु विवेकेन भासमानयोः सामानाधिकरण्याधीनं ज्ञानं -सिंहदेवदत्तयोरिव गौणं, न मिथ्याज्ञानमिति शङ्कते -

नन्विति ।

कर्माकर्मेति दर्शने फलाभावो गुणः, अकर्म कर्मेति दर्शने तु फलाभावो  गुणः, तन्निमित्तमिदं ज्ञानं गौणमित्याह -

फलेति ।

यथोक्तज्ञानस्य गौपत्वेऽपि प्रामाणिकफलाभावान्न तद्नौणतोचितेति दूषयति -

नेत्यादिना ।

कर्माकर्मेत्यादिगौणविज्ञानोपन्यासव्याजेन नित्याकर्मणः कर्तव्यतायाः विवक्षितत्वाद्नौणज्ञानस्याफलत्वमदूषणमित्याशङ्क्याह -

नापीति ।

ज्ञानादशुभमोक्षणस्य श्रुतस्य हानिः, अश्रुतस्य नित्यानुष्ठानस्य कल्पनेत्यनेन व्यापारगौरवेण न कश्चिद्विशेषः सिध्यतीत्यर्थः ।

उक्तमेव प्रपञ्चयति -

स्वशब्देनेति ।

नरकपातः स्यादतो विधेरेवानुष्ठेयानि तानीति शेषः ।

यथोक्तवाचकशब्दप्रयोगादेव अपेक्षितार्थसिद्धिसम्भवे भगवतो व्याजवचनकल्पनमनुचितमित्याह -

तत्रेति ।

प्रकृते श्लोके वृत्तिकृतां व्याख्यानेन परमाप्तस्यैव भगवतो विप्रलम्भकत्वमापादितमिति तदीयं व्याख्यानमुपेक्षितव्यमिति फलितमाह -

तत्रैवमिति ।

नित्यकर्मानुष्ठानसिद्ध्यर्थं व्याजरूपमिति भगवद्वचनमुचितमित्याशङ्क्य, स्वशब्देनापीत्यादिप्रागुक्तपरिपाट्या तदनुष्ठानबोधनसम्भवाद् मैवमित्याह -

नचैतदिति ।

वस्तुशब्देन नित्यकर्मानुष्ठानमुच्यते । यथात्मप्रतिपादनं सुबोधत्वसिद्ध्यर्थं पौनःपुन्येन क्रियते, तथा नित्यानामपि कर्मणामनुष्ठानं ‘कर्मण्यकर्म’ (भ. गी. ४-१८) इत्यादिशब्दान्तरेणोच्यमानं सुबोधं स्यादिति भगवतः शब्दान्तरं युक्तमित्याशङ्क्य, तस्य नित्यानुष्ठानवाचकत्वाभावान्मैवमित्याह -

नापीति ।

किञ्च, पूर्वमेव नित्यानुष्ठानस्य स्पष्टमुपदिष्टत्वान्न तस्य सुबोधनार्थं शब्दान्तरमपेक्षितमित्यह –

कर्मण्येवेति ।

कर्माकर्मादिविज्ञानव्याजेन नित्याकर्मानुष्ठानकर्तव्यतायां तात्पर्यमित्येतन्निराकृत्य, कर्माकर्मादिदर्शनं गौणमिति पक्षे दूषणान्तरमाह -

सर्वत्र चेति ।

लोके वेदे च यथा प्रशस्तं देवतादितत्त्वं, यच्च कर्तव्यमनुष्ठानार्हमग्निहोत्रादि, तदेव बोद्धव्यमित्युच्यते ; न निष्फलं काकदन्तादि । कर्मणि अकर्मदर्शनमकर्मणि च कर्मदर्शनं गौणत्वादेवाप्रशस्तमकर्तव्यं च । नातः तद् बोद्धव्यमिति वचनमर्हतीत्यर्थः ।