अविवेकपूर्वकम् , इदं रजतमिति, सदसतोः सामानाधिकरण्यान्मिथ्याज्ञानं युक्तं, कर्माकर्मणोस्तु विवेकेन भासमानयोः सामानाधिकरण्याधीनं ज्ञानं -सिंहदेवदत्तयोरिव गौणं, न मिथ्याज्ञानमिति शङ्कते -
नन्विति ।
कर्माकर्मेति दर्शने फलाभावो गुणः, अकर्म कर्मेति दर्शने तु फलाभावो गुणः, तन्निमित्तमिदं ज्ञानं गौणमित्याह -
फलेति ।
यथोक्तज्ञानस्य गौपत्वेऽपि प्रामाणिकफलाभावान्न तद्नौणतोचितेति दूषयति -
नेत्यादिना ।
कर्माकर्मेत्यादिगौणविज्ञानोपन्यासव्याजेन नित्याकर्मणः कर्तव्यतायाः विवक्षितत्वाद्नौणज्ञानस्याफलत्वमदूषणमित्याशङ्क्याह -
नापीति ।
ज्ञानादशुभमोक्षणस्य श्रुतस्य हानिः, अश्रुतस्य नित्यानुष्ठानस्य कल्पनेत्यनेन व्यापारगौरवेण न कश्चिद्विशेषः सिध्यतीत्यर्थः ।
उक्तमेव प्रपञ्चयति -
स्वशब्देनेति ।
नरकपातः स्यादतो विधेरेवानुष्ठेयानि तानीति शेषः ।
यथोक्तवाचकशब्दप्रयोगादेव अपेक्षितार्थसिद्धिसम्भवे भगवतो व्याजवचनकल्पनमनुचितमित्याह -
तत्रेति ।
प्रकृते श्लोके वृत्तिकृतां व्याख्यानेन परमाप्तस्यैव भगवतो विप्रलम्भकत्वमापादितमिति तदीयं व्याख्यानमुपेक्षितव्यमिति फलितमाह -
तत्रैवमिति ।
नित्यकर्मानुष्ठानसिद्ध्यर्थं व्याजरूपमिति भगवद्वचनमुचितमित्याशङ्क्य, स्वशब्देनापीत्यादिप्रागुक्तपरिपाट्या तदनुष्ठानबोधनसम्भवाद् मैवमित्याह -
नचैतदिति ।
वस्तुशब्देन नित्यकर्मानुष्ठानमुच्यते । यथात्मप्रतिपादनं सुबोधत्वसिद्ध्यर्थं पौनःपुन्येन क्रियते, तथा नित्यानामपि कर्मणामनुष्ठानं ‘कर्मण्यकर्म’ (भ. गी. ४-१८) इत्यादिशब्दान्तरेणोच्यमानं सुबोधं स्यादिति भगवतः शब्दान्तरं युक्तमित्याशङ्क्य, तस्य नित्यानुष्ठानवाचकत्वाभावान्मैवमित्याह -
नापीति ।
किञ्च, पूर्वमेव नित्यानुष्ठानस्य स्पष्टमुपदिष्टत्वान्न तस्य सुबोधनार्थं शब्दान्तरमपेक्षितमित्यह –
कर्मण्येवेति ।
कर्माकर्मादिविज्ञानव्याजेन नित्याकर्मानुष्ठानकर्तव्यतायां तात्पर्यमित्येतन्निराकृत्य, कर्माकर्मादिदर्शनं गौणमिति पक्षे दूषणान्तरमाह -
सर्वत्र चेति ।
लोके वेदे च यथा प्रशस्तं देवतादितत्त्वं, यच्च कर्तव्यमनुष्ठानार्हमग्निहोत्रादि, तदेव बोद्धव्यमित्युच्यते ; न निष्फलं काकदन्तादि । कर्मणि अकर्मदर्शनमकर्मणि च कर्मदर्शनं गौणत्वादेवाप्रशस्तमकर्तव्यं च । नातः तद् बोद्धव्यमिति वचनमर्हतीत्यर्थः ।