श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥
यस्य यथोक्तदर्शिनः सर्वे यावन्तः समारम्भाः सर्वाणि कर्माणि, समारभ्यन्ते इति समारम्भाः, कामसङ्कल्पवर्जिताः कामैः तत्कारणैश्च सङ्कल्पैः वर्जिताः मुधैव चेष्टामात्रा अनुष्ठीयन्ते ; प्रवृत्तेन चेत् लोकसङ्ग्रहार्थम् , निवृत्तेन चेत् जीवनमात्रार्थम्तं ज्ञानाग्निदग्धकर्माणं कर्मादौ अकर्मादिदर्शनं ज्ञानं तदेव अग्निः तेन ज्ञानाग्निना दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य तम् आहुः परमार्थतः पण्डितं बुधाः ब्रह्मविदः ॥ १९ ॥

समारम्भशब्दस्य कर्मविषयत्वं न रूढ्या, किन्तु व्युत्पत्त्येत्याह -

समारभ्यन्त इतीति ।

कामसङ्कल्पवर्जितत्वे कथं कर्मणामनुष्ठानमित्याशङ्क्याह -

मुधैवेति ।

उद्देश्यफलाभावे तेषामनुष्ठानं यादृच्छिकं स्यादित्याशङ्क्य, प्रवृत्तेन निवृत्तेन वा तेषामनुष्ठानं यादृच्छिकं स्यादिति विकल्प्य, क्रमेण निरस्यति -

प्रवृत्तेनेत्यादिना ।

ज्ञानग्नीत्यादि विभजते -

कर्मादाविति ।

यथोक्तज्ञानं योग्यमेव दहति, नायोग्यमिति विवक्षितत्वात् तस्मिन्नग्निपदम् ।

यथोक्तविज्ञानविरहिणामपि वैशेषिकादीनां पण्डितत्वप्रसिद्धिमाशङ्क्य, तेषां पण्डिताभासत्वं विवक्षित्वा विशिनष्टि -

परमार्थत इति

॥ १९ ॥