समारम्भशब्दस्य कर्मविषयत्वं न रूढ्या, किन्तु व्युत्पत्त्येत्याह -
समारभ्यन्त इतीति ।
कामसङ्कल्पवर्जितत्वे कथं कर्मणामनुष्ठानमित्याशङ्क्याह -
मुधैवेति ।
उद्देश्यफलाभावे तेषामनुष्ठानं यादृच्छिकं स्यादित्याशङ्क्य, प्रवृत्तेन निवृत्तेन वा तेषामनुष्ठानं यादृच्छिकं स्यादिति विकल्प्य, क्रमेण निरस्यति -
प्रवृत्तेनेत्यादिना ।
ज्ञानग्नीत्यादि विभजते -
कर्मादाविति ।
यथोक्तज्ञानं योग्यमेव दहति, नायोग्यमिति विवक्षितत्वात् तस्मिन्नग्निपदम् ।
यथोक्तविज्ञानविरहिणामपि वैशेषिकादीनां पण्डितत्वप्रसिद्धिमाशङ्क्य, तेषां पण्डिताभासत्वं विवक्षित्वा विशिनष्टि -
परमार्थत इति
॥ १९ ॥