श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥
तदेतत् कर्मणि अकर्मदर्शनं स्तूयते —

कर्मण्यकर्मदर्शनं पूर्वोक्तं स्तोतुमुत्तरश्लोकं प्रस्तौति -

तदेतदिति ।

यथोक्तदर्शित्वं - पूर्वोक्तदर्शनसम्पन्नत्वम् ।