श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥
त्यक्त्वा कर्मसु अभिमानं फलासङ्गं यथोक्तेन ज्ञानेन नित्यतृप्तः निराकाङ्क्षो विषयेषु इत्यर्थःनिराश्रयः आश्रयरहितः, आश्रयो नाम यत् आश्रित्य पुरुषार्थं सिसाधयिषति, दृष्टादृष्टेष्टफलसाधनाश्रयरहित इत्यर्थःविदुषा क्रियमाणं कर्म परमार्थतोऽकर्मैव, तस्य निष्क्रियात्मदर्शनसम्पन्नत्वात्तेन एवंभूतेन स्वप्रयोजनाभावात् ससाधनं कर्म परित्यक्तव्यमेव इति प्राप्ते, ततः निर्गमासम्भवात् लोकसङ्ग्रहचिकीर्षया शिष्टविगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मणि अभिप्रवृत्तोऽपि निष्क्रियात्मदर्शनसम्पन्नत्वात् नैव किञ्चित् करोति सः ॥ २० ॥

यथोक्तं ज्ञानं कूटस्थात्मदर्शनं, तेन स्वरूपभूतं सुखं साक्षादनुभूय, कर्मणि तत्फले च सङ्गमपास्य, विषयेषु निरपेक्षश्चेष्टते विद्वानित्याह -

त्यक्त्वेत्यादिना ।

इष्टसाधनसापेक्षस्य कुतो निरपेक्षत्वमित्याशङ्क्य, विशिनष्टि -

निराश्रय इति ।

यदाश्रित्येति यच्छब्देन फलसाधनमुच्यते ।

आश्रयरहितमित्यस्यार्थं स्पष्टयति -

दृष्टेति ।

तेन ज्ञानवता पुरुषेण एवंभूतेन - त्यकत्वा कर्मफलासङ्गमित्यादिना विशेषितेनेत्यर्थः । ततः - ससाधनात् कर्मणः सकाशादिति यावत् ।

निर्गमासम्भवे हेतुमाह -

लोकेत्यादिना ।

पूर्ववत् -ज्ञानोदयात् - प्रागवस्थायामिवेत्यर्थः । अभिप्रवृत्तोऽपि लोकदृष्ट्येति शेषः । नैव करोति किञ्चिदिति स्वदृष्ट्येति द्रष्टव्यम् ॥ २० ॥