यथोक्तं ज्ञानं कूटस्थात्मदर्शनं, तेन स्वरूपभूतं सुखं साक्षादनुभूय, कर्मणि तत्फले च सङ्गमपास्य, विषयेषु निरपेक्षश्चेष्टते विद्वानित्याह -
त्यक्त्वेत्यादिना ।
इष्टसाधनसापेक्षस्य कुतो निरपेक्षत्वमित्याशङ्क्य, विशिनष्टि -
निराश्रय इति ।
यदाश्रित्येति यच्छब्देन फलसाधनमुच्यते ।
आश्रयरहितमित्यस्यार्थं स्पष्टयति -
दृष्टेति ।
तेन ज्ञानवता पुरुषेण एवंभूतेन - त्यकत्वा कर्मफलासङ्गमित्यादिना विशेषितेनेत्यर्थः । ततः - ससाधनात् कर्मणः सकाशादिति यावत् ।
निर्गमासम्भवे हेतुमाह -
लोकेत्यादिना ।
पूर्ववत् -ज्ञानोदयात् - प्रागवस्थायामिवेत्यर्थः । अभिप्रवृत्तोऽपि लोकदृष्ट्येति शेषः । नैव करोति किञ्चिदिति स्वदृष्ट्येति द्रष्टव्यम् ॥ २० ॥